________________
000000000000000000000000000000000000000000000000000
अथाष्टप्रकारपूजाफलोपदेशान्नष्टौ कथयति । यथा-- पूअइ जो जिणचंदं तिन्निवि संझासु पवरकुसुमेहिं । सो पावइ सुरसुक्खं कमेण मुक्खं सया सुक्खं ॥१॥ इक्केणवि कुसुमेणं भत्तीइ वीअरायपूआए । पावइ परमविभूइं जीवो सिरिकुमारपालुव्व ॥ २॥
यथा श्रीकुमारपालः पूर्वभवस्वपञ्चकपर्दिकानाणकगृहीताप्टादशचम्पकपूजितवीतरागनवाङ्गपुण्यप्रसादाद् महाराजाधिराजः ७२राणकसेव्यपादारविन्दोऽष्टादशदेशभोक्ता चतुर्दशशतप्रासादकारकः सप्तव्यसननिवारको मृतापुत्रखमोक्ता राजर्षिः परमब्रह्मव्रतधारी खाऽऽज्ञावर्त्यष्टादशदेशामारिप्रवर्तकः श्रीहेमाचार्यचरणाराधक एकावतारी समभूज्जिनभक्त्या । यदुक्तम्
कुमारो भूपोऽभूज्जगदनुपमप्रौढचरितो भवेनैकेनैवामृतपदगमी यत्सुरभवात् ।
अणोरेकस्यैतत्तव जिन ! विभो ! भक्तिनिचये न केषामाश्चर्य जनयति फलं विश्वविदितम् ? ॥३॥ अरीन्निजित्योदध्यवधिभुवमात्मैकपतिकां विचार्यानार्येप्वप्यखिलतनुमद्घातमनघाम् ।
मणीचैत्यैरुद्धां सुभगवपुषं च व्यसनहृत्स राजा त्वद्भक्त्याऽधिगतविभवो नाथ ! कृतवान् ॥ ४ ॥ जाता दिग्विजयाः कुमारनृपतेः पञ्चायुती स्यन्दना जजुर्जङ्गमपर्वता इव शतान्येकादशेभेश्वराः।
(१७)
RAKAnnooooo०००००००००००००0000000000000000