________________
+000000०००००००००००००००००००००००००००००००००म्म
कारिता ।सा जन्यासमं सेडीनदीतटं प्राप्ता, जन्या भोजनार्थ तत्र स्थिता, सा जिनपूजां विना न भुके। तदा देवरैहास्येन वेलूछगणमिश्रा प्रतिमा कृता पत्रैः पूजिता ।हांस्या उक्तम्-जिनं पूजय। तया नमस्कारस्थापनापूर्व पूजिता, तदनु भोजनं कृतम्। तच्छीलमाहात्म्येन वेलाविशेषेण च नद्यधिष्ठायकेनाधिष्ठिता वज्रमयी जाता ।जन्याचलनावसरे शकटानि स्तम्भितानि प्रतिमाधिष्ठायकेन । आकाशे वाणीजाता-यदि श्रावकीभूय नदीतटे एनां आदिनाथप्रतिमां प्रासादे स्थापयिष्यथ, तदा शकटानि चलिष्यन्ति, नान्यथा। तैस्तथा प्रतिपन्नम् , तत्र प्रासादः कारितो वीणाग्रामे सेडीनदीतटस्थे गन्धारवेलाकूले।तदनु सुखेन प्राप्ताः, परमार्हताः सर्वेऽपिजाताः। तत्तीर्थ महज्जातम् । सर्वदाऽपि वृद्धैका स्त्री शुचीभूय तद्ग्रामनिवासिनी जिनं पूजयित्वा द्रव्यं मार्गयति, तदा स्वप्नेऽधिष्ठायकेनोक्तम्-प्रतिमाहस्तस्थः प्रतिदिनं त्वया द्रम्मो ग्राह्यः। प्रभाते तथा करोति स्म। लक्ष्मीवती जाता। प्रातिवेश्मिकया लक्ष्म्याः कारणं पृष्टम् । मुग्धत्वेन तयोक्तम् । द्वितीये दिने तत्प्रथमं प्रातिवेश्मिकी प्रभाते समागता यावद् द्रम्मं गृह्णाति, तावद् द्रम्मो हस्ते विलग्नः । रुष्टेनाऽधिष्ठायकेन पूजाकारिण्या अपि नाऽर्पितः। अद्यापि स द्रम्मःप्रतिमाहस्ते दृश्यते। नीरेण प्रदीपा ज्वलन्ति, प्रक्षालननीरं गच्छद् न दृश्यते । एवमपरैरपि प्रतिमा कार्या॥
॥ इति जिनप्रतिमोपदेशः समाप्तः॥
(१३०)
000000000000000000000000000000000000000000000000000