________________
लात्वा नमस्कारस्मरण करिष्यति; एतावता सर्व वलिष्यति । सा संप्रति पुरमध्ये पुरवृद्ध्या समागता । । एवं श्रीवस्तुपालेन पौषधशालासप्तशती कारिता । एवमपरैर्भाग्यवद्भिः पोषधशालाकारापणोद्यमः कार्यः।
___ इति पोषधशालोपदेशश्चतुर्थः ॥
000000000000000000000000000000000000000000000000
अथ जिनबिम्बोपदेशास्तद्यथा
अङ्गुष्ठमानमपि यः प्रकरोति बिम्ब वीरावसानवृषभादिजिनेश्वराणाम् ।
स्वर्गे प्रधानविपुलर्डिसुखानि भुक्त्वा पश्चादनुत्तरगतिं समुपैति धीरः ॥ १॥ यः श्रीआदिनाथादिजिनबिम्बं पञ्चशतधनुःप्रमाणमङ्गुष्ठप्रमाणं वा कारापयति, स स्वर्गसौख्यानि भुक्त्वा मुक्तिं लभते । यथा-श्रीभरतचक्रिणा खाङ्गुलीयपाचिमणिमयी श्रीआदिनाथप्रतिमा कारिता, साऽद्यापि देवगिरिदेशे कुल्यपाके माणिक्यस्वामीति प्रसिद्धा।। अष्टापदाद्रिशिखरे निजनिजसंस्थानमानवर्णधराः। भरतेश्वरनृपरचिताः सद्रनमया जयन्तु जिनाः ॥ २॥ तथा-श्रीब्रह्मेन्द्रकृतेयं श्रीनेमेर्मूर्तिरमरगणपूज्या । विंशतिसागरकोटीः स जयति गिरिनारंगिरिराजः ॥ ३ ॥
(१३१)
500000000000000000000000000000000000000000000000000000