________________
००००००००००००००००००००००००
कारयन्ति नरा धन्या भावात् पौषधशालिकाम् । संसारसागरं तीर्खा ते लभन्ते परं पदम् ॥ १॥ __ यथा-पत्तने आभडविसा निर्धनः कांस्यकारकाऽढे घुर्घरान् घर्पयित्वा प्रतिदिनं द्रम्मपञ्चकार्जनेन कुटुम्बनिर्वाहं करोति । स एकदा परिग्रहपरिमाणं गृह्णन् ७शतद्रम्मानेव मुत्कलीकुर्वन् श्रीहेमसूरिभिः सामुद्रिकबलात् त्रिलक्षनियमं ग्राहितः। तदनु पुत्रो जातः, तत्स्तन्यपानार्थ वर्याऽजामानेतुंग्रामं गतः । तत्र निपानेऽजावृन्दमध्येऽजामेकां घण्टिकामध्यस्थेन्द्रनीलमणिकिरणनिर्मीयमाणनीलावाहजलां जवाह, पश्चादागतः। मणिरुद्योतितो मणिकारपार्धात् । सिद्धराजेन शृङ्गारकोटीहारमध्यपदकस्थानस्थापनार्थ सपादलक्षेण गृहीतः । तेनैवैकदा मञ्जिष्ठान्नादिकानि गृहीतानि, विक्रये स्वर्णकम्बिका निर्गता । कोटीश्वरः संजातः । परिग्रहपरिमाणं संभाल्य ८४पौषधशाला नव्यसंजातश्राहक्षेत्रेपु कारिताः; २४वृषभादिवर्धमानान्तजिनमूलनायकाः प्रासादाश्च । प्रतिदिनप्रासुकाक्रीतघृतघटविहारणं सकलसुविहितानां क्षमाश्रमणदानपूर्वम् । प्रान्ते ९०लक्षाः सप्तक्षेत्र्याम् । इत्याभडपौषधशालाप्रबन्धः ॥ तथा स्तम्भतीर्थे श्रीभीमसाधुना मध्यस्थानाभावे पुराद् बहिर्बहुद्रव्येण श्रीखण्डदन्तमयालयमण्डिता पौषधशाला कारिता । तदा परैः प्रोक्तम्-वने भिल्ला एव वासं करिप्यन्ति, मुधा द्युम्नव्ययः कृतः । तेनोक्तम्-नहि, कश्चित् खिन्नः पौट्टलिको विश्राम गृहीष्यति । सामायिकं
50000००००००००००००००००००००००००००0000000000000
00000000000000000000000
(१३०)