________________
मार्गिताःस्वकुटुम्बपार्श्वे । वस्तुपालेनोक्तम्-अपरं किमपि याचस्व । स आह-अर्बुदतीर्थोपरि विमलवसतौ देवकुलिकामनोरथ आसीत्, यदि सिद्ध्यति तदा पूरणीयः । तदनु व्यापारे जाते श्रीअर्बुदाचले श्रीमाताबोडिकस्य चन्द्रावतीशधारावर्षराणकस्य च पार्श्वात् वस्तुपालेन ३६ मूढकवीसलपुरीद्रम्मैर्भूराच्छाद्यास्तारिता गृहीता । श्रीमातार्चकाः कथयन्ति स्म-द्रम्मचतुष्कको रिक्ता मही तिष्ठति । एकोऽन्तराले मुक्तः। सैव रीतिर्लोके चलिता द्रम्मस्तारणे । ततस्तत्र प्रासादो मण्डापितः। तदा शोभनसूत्रधारः कथयति स्म - प्रासादपादः हाटकैः पूरितो विलोक्यते । तदा मन्त्रिणा स्वर्णेष्टिका समानीता । शिल्पिनोक्तम् - खकोशे स्थापयतु, मया तवौदार्यपरीक्षा कृता । तत आरासणार्बुदान्तराले घृतसमितमोदकाट्टानि मण्डापितानि, पाषाणशाकटिकबलीवर्दसुखार्थ स्थाने २ नीराश्रयाश्र, १५शतशिलाकुट्टकाः कर्मस्थायं कुर्वन्ति, तेषां मर्दनदातारो नापिताः, प्रदीपधारका प्रत्येकं रीञ्छ्यादौ कर्मस्थायसिद्ध्यर्थम् ; वर्षत्रयेण पूर्णः प्रासादः संजातः । रूप्यसमानाः पाषाणाः पतिताः । सं० १२८३ वर्षे प्रासादारम्भः सं० १२९२ प्रतिष्ठा, १२ कोटि ५३ लक्षद्रम्मा लग्नाः । लूणिगवसहीनाम दत्तम् ; लोकदत्ततेजः पालवसहीत्यपराभिधा । प्रतिष्ठासमाहूतजावालिपुरेशश्रीउदयसिंहनृपप्रधानमं० यशोवीरपार्श्वे श्रीवस्तुपालः प्रासादगुणदोषान् पप्रच्छ । ८४ राणक १२ मण्डलीक ४ महीधर ८४ ज्ञातिमहाजनसभायां स आह - शोभनसूत्रधार ! त्वन्मातुः कीर्त्तिस्तम्भे
1
(११५)