________________
b००००००००००००००००००००००००००००००००००००००००००००००००ठन
तीर्थकरैस्तपश्चक्रे । यथासंवच्छरमुसभजिणो छम्मासा वडमाणजिणचन्दो । इय विहरिआ निरसणा जइज्जए ओवमाणेण ॥२॥ द्वादशविधं तपस्तीर्थकरैः प्ररूपितम्- अणसणमूणोअरिआ०; पायच्छित्तं विणओ० इत्यादि ॥ श्रीहेतुस्तपः । यथा--तपसा सुवर्णपुरुषादिसिद्धयः ॥ भवक्षयकृत्तपःउवसमविवेगसंवरपयचिन्तणवज्जदलिअपावगिरी । सोढुवसग्गो पत्तो चिलायपुत्तो सहस्सारे ॥ ३ ॥ यद् दूरं यद् दुराराध्यं दुर्लभं यत् सुरैरपि । तत्सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ४ ॥
विदारितरोगं तपो यथा-श्रीसिद्धचक्राऽऽचामाम्लतपसा श्रीपालस्य कुष्ठोपशान्तिः, निर्जरा, कर्मक्षतिः; ब्रह्मस्त्रीभ्रूणगोधातादिदुष्कर्मवानपि दृढप्रहारिः स्वर्ग गतस्तपसा ॥ विनापहारि तपो यथा-द्वारिकायां द्वैपायनासुरकृतोपसर्गा आचामाम्लादितपसा द्वादशवर्षावधि टलिताः, लोकानां श्लथीभवने पुनः प्रकटीभूताः ॥ इन्द्रियदमनं तपसा स्यात् । यतःअन्तश्चित्तकरण्डिकं स्थितिजुषो रागादिदोषोरगा वाञ्छामात्रसमीरमक्षविवरैर्भुक्त्वाऽभवन्सोल्वणाः । किन्त्वेते किल सर्वथाऽप्यनशनाः स्थाप्या यथाऽन्तर्मुहूर्तेनापि क्षयमाप्नुयुस्तव पुनः सौख्यं किमप्यद्भुतम् ॥५॥
10०००००००००००००००००००००००००००००००००००००००००००००००