________________
[१५] धर्म एव सदा बन्धुः स एव शरणं मम। .. - इह वान्यत्र संसारे इति तं पूजयेऽधुना॥ ___ॐ ह्रीं केवलिप्रज्ञप्तधर्मशरणाय अर्घ निर्वपामीति स्वाहा। संसारदुःखहननेनिपुणंजनानां, नाद्यन्तचक्रमितिसप्तदशप्रमाणम् संपूजये विविधभक्तिभरावनम्रःशान्तिप्रदंभुवनमुख्यपदार्थसाथैः ॐ ह्रीं अर्हदादिसप्तदशमन्त्रेभ्यो महाघ निर्वपामीति स्वाहा।
.. अथ जयमाला विघ्नप्रणाशनविधीसुरमस्यमाथा, अग्रेसरंजिन वदन्तिभवन्तमिष्टम्। नाद्यन्तचक्रयुगवर्तिनमत्र कार्ये, गार्हस्थ्यधर्मविहितेऽहमपिस्मरामि॥ गणानां मुनीनामधीशत्वतस्ते, गणेशाख्यया ये भवन्तं स्तुवन्ति। सदा विघ्नसन्दोहशान्तिर्जनानां करे संलुठत्यायतश्रेयसानाम् ॥ कलेः प्रभावात्कलुषाशयस्य, जनेषु मिथ्यामदवासितेषु । प्रवर्तितोन्यो गणराजनाम्ना, लम्बोदरो दन्तिमुखो गणेशः॥ रुद्रेण कामज्वलितेन गौर्या, विनोदभारान्मलमुक्षिपित्वा। कृत्वा पुराणेष्विति वाचयित्वा सन्मंगलं तं कथमुगिरन्ति । यतस्त्वमेवासि विनायको मे इष्टेष्ट योगानवरुद्धभाषः। त्वनाममात्रेण पराभवन्ति विघ्नारयस्तर्हि किमत्र चित्रम् ॥ जय जय जिनराज त्वद्गुणान्को व्यक्ति,
यदि सुरगुरुरिद्रः कोटिवर्षप्रमाणम्। वदितुमभिलषेद्वा पारमाप्नोति नो चेत्,
. .कतिथ इह मनुष्यः स्वल्पबुद्धया समेतः॥ ॐ ह्रीं अहंदादिसप्तदशमन्त्रेभ्यो अर्घ निर्वपामीति स्वाहा।