________________
[१२]
पीयूषपिण्डैश्च शशांकान्तिस्पर्शद्भिरिष्टैर्नयनप्रियैश्च । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो नैवेद्यं निर्वपामीति स्वाहा । ध्वस्तान्धकारप्रसरैः सुदीपैर्धृतोद्भवै रत्नविनिर्मितैर्वा । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो दीपं निर्वपामीति स्वाहा। स्वकीय धूमेन नभोवकाश-व्यापद्भिरुद्यैश्च सुगन्धधपः । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो धूपं निर्वपामीति स्वाहा। नारङ्गपगादिफलैरनयै र्हृन्मानसादिप्रियतर्पकैश्च । अर्हत्पदाभाषितमङ्गलादीन् प्रत्यूहनाशार्थमहं यजामि ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो फलं निर्वपामीति स्वाहा । अम्भश्चन्दननन्दनाक्षतरुद्भूतैर्निवेद्यैवरैः ।
दीपर्धूपफलोत्तमैः समुदितैरेभिः सुवर्णस्थितैः ॥ अर्हत्सिद्धसुसूरिपाठकमुनीन्, लोकोत्तमान्मङ्गलान्।
प्रत्यहोघनिवृत्तये शुभकृतः, सेव्ये शरण्यानहम् ॥ ॐ ह्रीं मङ्गलोत्तमशरणभूतेभ्यः पञ्चपरमेष्ठिभ्यो अर्धं निर्वपामीति स्वाहा । अथ प्रत्येक पूजनम्
कल्याणपञ्चककृतोदयमाप्तमीश- मर्हतमच्युतचतुष्टयभासुरांगम् । स्याद्वादवागमृतसिन्धुशशांककोटि मर्चे जलादिभिरनन्तगुणालयं तम् ॥ ॐ ह्रीं अनन्तचतुष्टयसमवशरणादिलक्ष्मीबिभ्रते अर्हत्परमेष्ठिने अर्धं निर्व. ।