SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ SASEXXXXXXXXXEEXEEXXXXXXXXX नीरन्ध्रकन्दराकारे प्रासादेऽप्युषितोऽस्म्यहम् । शिलातले वा विपुलशय्यायां शयितस्तथा ॥ १५८६ ॥ स एवमुपमेयस्य प्रधानस्याऽपि वस्तुनः । असारवस्तुना स्वानुमानेनोपमिति व्यधात् ॥१५८७ ।। एवं संसारिलोकस्य पुरतोऽस्मादृशैरपि । सिद्धिसौख्यमिह लोकानुमानेनोपमीयते ॥१५८८ ॥ यत्कामभोगजं लोके यच्च दिव्यं महत्सुखम् । ततोऽनन्तगुण सौख्यं सिद्धानां शाश्वतं भवेत् ॥१५८९ ॥ एवमाख्याय भगवान् ततःस्थानात्समुत्थितः। प्रधानशिखरे क्वाप्याऽऽरुरोहाऽस्य महीभृतः।। १५९० ॥ केवलज्ञानिनां चारुसाधूनां नवभिः शतैः। साध शान्तिजिनस्तत्र मासिकाऽनशनं व्यधात् ॥ १५९१ ।। सर्वेऽपि सपरीवाराः सुरेन्द्रास्त्रिजगत्प्रभोः । परमप्रीतिसम्पन्नाश्चक्रिरे पर्युपासनम् ॥१५९२॥ ज्येष्ठश्यामत्रयोदश्यां भरणीस्थे निशाकरे । शुक्लस्य चरमं भेदं ध्यायन सिद्धि ययौ प्रभुः ॥१५९३ ॥ सर्वेऽपि साधवस्तत्र जग्मुस्ते क्रमयोगतः । जायतेऽपुनरावृत्तिर्गतानां यत्र देहिनाम् ॥१५९४ ॥ ज्ञात्वा सिद्धिगतं नाथं देवदेवीगणान्विताः । सुरेन्द्राः शोकसंपूर्णा अश्रुपातविधायिनः ॥१५९५॥ त एवं विलपन्ति स्म स्मारं स्मारं प्रभोर्गुणान् । यतो वैक्रियरूपास्ते समायान्ति महीतले ॥१५९६॥ हा नाथ! संशयध्वान्तविच्छेदनदिवाकर मुक्त्वाऽनाथानिहाऽस्मास्त्वं श्रीशान्तोकगतोऽसिहा?।१५९७/ स्वस्वभापापरीणामातिशयाऽऽहलाददायिनीम् । विनाभवन्तं हे नाथ!कः कर्ताधर्मदेशनाम् ॥ १५९८॥ १ वा इवार्थे ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy