SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ अहो ! अस्या वचः सत्यं करणीयं मया खलु । बालादपि हितं ग्राह्यं पठ्यतेऽदो बुधैर्यतः ॥ सविषादममुं गेहप्राप्तं दृष्ट्वाऽवदत् पिता । अद्याऽऽख्याति सचिन्तत्वं वत्स ! ते श्यामवक्त्रता ॥ तद्ब्रूहि किमसंपूर्ण वर्तते तव पुत्रक ! । किमेकतनयस्याऽपि पूरयिष्यामि नेप्सितम् १ ॥ किञ्चिद्विहस्य सोऽथाssख्यादर्थोपार्जन हेतवे । तात ! देशान्तरे गन्तुमिच्छामि त्वदनुज्ञया ॥ भूयो रत्नाकरोऽवोचत् पुत्राग्रेऽपि धनं बहु । विद्यते मद्गृहे तेन पूरय स्वसमीहितम् ॥ देशान्तरोऽतिविषमो गन्तुं शक्योऽतिकर्कशैः । सुकुमारतनुस्त्वं तु कथं तत्र गमिष्यसि इन्द्रियाणि वशे यस्य स्त्रीभियों न विलुभ्यते । वक्तुं यो वा विजानाति याति देशान्तराणि सः ततो देशान्तरे गत्वा वत्स ! किं त्वं करिष्यसि १ या मयोपार्जिता लक्ष्मीः सा त्वदीयैव सर्विका एवमुक्तोऽप्यसौ यावन्न मुमोच तमाग्रहम् । ततो विसृष्टः पित्राऽपि किं न स्यान्निश्वये कृते ततः स्वोद्धारके द्रव्यलक्षमादाय पैतृकम् । उपाददौ भाण्डजातं स देशान्तरलाभदम् रोया प्रवहणं किञ्चिद्गृहीत्वा तत्क्रयाणकम् । तत्र निक्षेपयामास प्रगुणश्च बभूव सः ॥ ददौ शिक्षामिमां तस्मै श्रेष्ठी यद्वत्सक ! त्वया । नगरे न हि गन्तव्यमनीतिपुरनामनि ॥ अन्यायस्तत्र भूपोऽस्ति सचिवस्त्वविचारकः । सर्वग्राह्याऽऽरक्षकञ्चाशान्तिनामा पुरोहितः १ धनेन । ।। ॥ ॥ ॥ ॥ ॥ १३७२ ॥ १३७३ ॥ १३७४ ॥ १३७५ ॥ १३७६ ॥ १३७७ ॥ १३७८ ॥ १३७९ ॥ १३८० ॥ १३८१ ॥ १३८२ ॥ १३८३ ॥ १३८४ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy