________________
सिद्धासुराधिपति - यक्ष नरेन्द्र - चक्र,
येयं शिवं सकल-भव्य-जन: सुवन्द्यम् । नारिङ्ग-पूग- कदली-फल-नारिकेल:,
सोऽहं यजे वरफलर्वर-सिद्धचक्रम् ॥१०॥ ॐ ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं गन्धाढ्यं सुपयो मधुवत-गणः संगं वरं चन्दनं, पुप्पोघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् । धूपं गन्धयुतं ददामि विविधं श्रेष्ठ फलं लब्धये, सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम् ।।११॥ ॐ ह्रीं मिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनध्यपदप्राप्तये अघं। जानोपयोगविमलं विशदात्मरूपं,
सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम् । कमों घ-कक्ष-दहनं सुख-शस्य-बीजं, ___ वन्दे सदा निरुपमं वर-सिद्ध-चक्रम् ॥१२॥ कर्माप्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् ।
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् ॥१३॥ ॐ ह्रीं मिद्धक्राधिपतये मिद्धपरमेष्टिने महार्घ निवपा० त्रैलोक्येश्वर-वंदनीय-चरणाः प्रापुः श्रियं शाश्वती, यानाराध्य निरुद्ध-चण्ड-मनसः सन्तो-पि तीर्थङ्कराः।