________________
कैलाशो वृषभस्य निर्वृत्ति-मही, वीरस्य पावापुरी। चम्पा या वासुपूज्यसज्जिनपते: सम्मेदशैलोऽर्हताम् ।।
पाणामपि चोर्जयन्तशिखरी नेमीश्वरस्याहतः । निर्वाणा-वनवः प्रमिद्धविभवाः, कुर्वन्तु ते मङ्गलम् ।।५।। सर्पो हारलता भवत्यसिलता, मत्पुप्पदामायते । सम्पद्येत रमायनं विपमपि, प्रीति विधत्ते रिपुः ।। देवा यान्ति वशं प्रसन्नमनसः, किंवा बहु ब्रूमहे । धर्मादेव नभोऽपि वर्पति तरां, कुर्वन्तु ते मङ्गलम् ॥६॥ यो गर्भावतरोत्सवे भगवनां, जन्माभिषेकोत्सवे । यो जान: परिनिष्क्रमेण विभवो, य: केवलज्ञानभाक् ।। यः कैवल्यपुरप्रवेशमहिमा, सम्पादितः स्वगिभिः । कल्याणानि च नानि पञ्च मनतं, कुर्वन्तु ते मङ्गलम् ।।७।। आकाशं मूर्त्यभावा-दधकुलदहना-दग्निरुर्वी क्षमाप्ता । नःसंगादायुरापः-प्रगुणशमतया,म्वात्मनिष्ठः मुयज्वा । मोमः सौम्यत्वयोगा-द्रविरिति च विदु-स्तेजसः मन्निधानाद् । विश्वात्मा विश्वचक्षु-विनरतु भवतां, मंगलं श्रीजिनेशः ।।८।। इत्थं श्री जिनमंगलाष्टकमिदं, सोभाग्य-सम्पत्करं । कल्याणेषु महोत्सवेषु सुधियस्तीर्थङ्कराणां मुखाः ॥ ये शृण्वन्नि पठन्ति तैश्च मुजनः, धर्मार्थकामान्विताः । लक्ष्मीलंभ्यत एव मानवहिता, निर्वाणलक्ष्मीरपि ।।६।।
॥ इति मंगलाप्टकम् ॥