________________
मंगलाष्टकम् |
,
श्रीमन्नम्रसुरा – सुरेन्द्र - मुकुट - प्रद्योतरत्न - प्रभा - भास्वत्पादनखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधवः । स्तुत्या योगिजनंश्च पञ्चगुरवः कुर्वन्तु ते मङ्गलम् ॥ १ ॥ नाभेयादिजिना: प्रशस्तवदनाः ख्याताश्चतुर्विंशतिः । श्रीमन्तो भरतेश्वरप्रभृतयो, ये चक्रिणो द्वादश ॥ ये विष्णुप्रति विष्णु - लाङ्गल धरा, सप्तोत्तरा विशतिः । त्रैलोक्ये प्रथितास्त्रिषष्ठिपुरुषाः कुर्वन्तु ते मङ्गलम् ॥२॥ ये पञ्चोपधिऋद्धयः श्रुततपो वृद्धिंगता पञ्च ये । ये चाष्टाङ्ग महानिमित्तकुशलाश्चाप्टो विधाश्चारिणः ॥ पञ्चज्ञानधराश्चयेपि विपुला, ये बुद्धि - ऋद्धीश्वराः । सप्तंते सकलाचिता मुनिवराः कुर्वन्तु ते मङ्गलम् ॥ ३ ॥ ज्योतिर्व्यन्तर-भावनामर-गृहे, मेरौ कुलाद्वौ स्थिताः । जम्बूशाल्मलिचत्यशाखिपु तथा वक्षार-रूप्याद्रिपु ॥ इक्ष्वाकारगिरी च कुण्डलनगे, द्वीपे च नन्दीश्वरे । शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते मङ्गलम् ||४||
"