________________
श्री सेठियावंशक्षः
बीकानेरे शुभे राज्ये. मरोः मस्तकमण्डने ।
आसीत् कस्तूरियानामा, ग्रामो धर्मविदां खनिः ॥ १॥ कस्तूरीव समं विश्वं, यशोगन्धेन पूरयन् । सेठियावंशवृक्षो यम्, कुरुतेऽन्वर्थनामकम् ॥ २॥ तस्मिन्कुले महातेजाः, धार्मिकः कुलदीपकः। सेठसूरजमलोऽभूत्, यशस्वी स्फीतकीर्तिमान् ॥ ३ ॥ तदन्वये धर्मचन्द्रः, श्रेष्ठी धर्मरतोऽभवत्।
आत्मजास्तस्य धर्मस्य, चत्वार इव हेतवः ॥ ४॥ जाताः प्रतापमल्लोऽथ, अग्रचन्द्रः सुधीवरः । भैरोंदानो वदान्यश्च, हजारीमल इत्यपि ॥ ५॥ श्रमणोपासकाः सर्वे, धर्मप्राणाः गुणप्रियाः । गुणरत्नाकराः नूनम् , चत्वारस्तोयराशयः ॥ ६ ॥ पूज्यश्रीहुक्मचन्द्रस्य, सिंहासनमुपेयुषः । श्रीलालाचार्यवर्यस्य, भक्ताः गौरवशालिनः ॥७॥ श्रीलालानन्तरं सर्वे, तत्पदृसुशोभिनः । श्रीमतो ज्याहिराचार्यान् , तेजोराशीन् प्रपेदिरे ॥ ८॥ हजारीमल्लपत्नी तु, श्रीरत्नकुंवराया। बाल्यादेव विरक्तासीत् , संसारैश्वर्यभोगतः ॥९॥ बाणरसनिधीन्दौ सा, पत्यौ प्राप्ते सुरालयम् । श्रीलालाचार्यवर्येभ्यः, दीक्षां जग्राह साधवीम् ॥१०॥