________________
॥श्रीवीतरागाय नमः॥
जैनाचार्य-जैनधर्मदिवाकर-पूज्यनीघासीलालबतिविरचितया आचारमणिमञ्जूषाख्यया व्याख्यया समलङ्कृतं
श्रीदशवैकालिकसूत्रम्
मङ्गलाचरणम्. नम्रीभूतपुरन्दरादिमुकुट, भ्राजन्मणिच्छायया, चित्रानन्दकरी सदा भगवतो, यस्याङ्घिलक्ष्मीः परा । यद्विज्ञाननिरन्तसिन्धुलहरी, मन्नाः स्वकर्मक्षयं, कृत्वाऽनन्तसुखस्य धाम भविनः, प्रापुः श्रये तं जिनम् ॥१॥ विमलः केवलाऽऽलोक,-प्रभासंभारभासुरः। त्रिजगन्मुकरो धीरो, वीरो विजयतेतराम् ॥२॥ श्रीसुधर्मा महावीर-लब्धरत्नोज्ज्वलो गणी। निबबन्ध तदुक्तार्थ, नमस्तस्मै दयालवे ॥३॥ अर्थतत्करुणालब्ध,-विवेकामृतबिन्दुना। दशवकालिकव्याख्या, घासीलालेन तन्यते ॥४॥