________________
श्री भगवती सूत्र
[४६२]
प्रश्न- द्वीन्द्रिया भगवन् ! यान् पुद्गलान् आहारतया गृहणन्ति, तान् कि सर्वान् प्राहरन्ति, नो सर्वानाहरन्ति ?
उत्तर-गौतम ! द्वीन्द्रिय णां द्विविध आहारः प्रज्ञप्तः तद्यथा. लोमाहारः प्रक्षेपाहारश्च । यान पुद्गलान् लोमाहारतया गृह्णन्ति तान् सर्वान् अपरिशेषितान् अाहरन्ति । यान् प्रक्षेपाहारतया गृह्णन्ति तेषां पुद्गलानामसंख्येयभागमाहरन्ति, अनेकाने च भागसहस्राणि अनाखाद्यमानानि, अस्पयमानानि विध्वंसमागच्छन्ति ।
प्रश्न-एतेषां भगवन् ! पुद्गलानां अनास्वाद्यमानानां अस्पर्यमानानां च कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या का विशेषाधिका वा?
उत्तर-- गौतम ! सर्वस्तोका: पुद्गला अनास्वाधमाना अस्पः यमाना अनन्तगुणा।
प्रश्न-द्वीन्द्रिया भगवन् ! यान् पुद्गलान् आहारतया गृह्ः रणन्ति, ते तेषां पुद्गलाः कीदृशतया भूयो भूयः परिणमन्ति ?
उत्तर-गौतम ! जिह्वेन्द्रिय स्पर्शेन्द्रियविमात्रया भूयो भूयः परिणमन्ति।
प्रश्न--द्वीन्द्रियाणां भगवन् ! पूर्वाहृताः पुद्गलाः परिणताः १ . उत्तर-तथैव, यावत् चकितं कर्म निर्जरयन्ति ।