________________
षष्ठ परिस्ट : जैनकुमारसम्भव की कलापक्षीय समीक्षा
भूरिभाराद्भुवो भङ्ग- भीत्येव मृदुचारिणम्। गण्डशेलपरिस्पर्धि- कुंभं कर्पूरपाण्डरम्, द्विरदं मदसौरभ्य लुभ्यद्भमरमैक्षत।। भाग्यैः शकुनकामाना- मिवगर्जन्तमूर्जितम्, शुभ्रं पुण्यमिवप्राप्तं, चतुश्चरणचारुताम्। सिन्धुरोधक्षमं रोधः स्यन्तं मृल्लवलीलया, सशृङ्गमिवकैलासं, ककुद्यन्तं ददर्श सा।। युग्मम्।।
अप्यतुच्छतया पुच्छा- घातकम्पितभूतलम्, अप्युदारदरीक्रोड- क्रीडत्क्षेडाभयङ्करम्। सद्यो भिन्नेभकुंभोत्थ- व्यक्तमुक्तोपहारिणम्, हरिणाक्षी हरिं स्वप्न दृष्टं सा वहमन्यत।।
निधीनक्षय्य सारौघ- तुन्दिलान् सन्निधौ दधिः, भृषाहेम्नः स्ववपुषो, मयुखेतरं घ्नती। पद्माकरमयीं मत्वा, नेत्रवक्रकरांध्रिणा, पद्मवासा निवासार्थ- मिवोपनमति स्मताम्।। भृङ्गः सौरभलोभेना- नुगतं सेवकैरिव। तन्व्या दोः पारावत् पुण्य-भाजां कण्ठग्रहोचितम्।। "प्रहितं प्राभृतं पारि- जातेनैव जगत्प्रियम्, असर्म कौसुम दाम, जज्ञे तन्नेत्रगोचरः।३२