________________
स्वार्थविवार्थदीपिका। पञ्चविंशत्तमसू० टी० : ३८७ : जिज्ञासानुरोधेन तद्रूपेण वाच्यत्वाचा वृत्तौ तवगम इति, किंबहुना ? लोकलोकोतरन्यायविरोधेनानुगतार्थबाहिणि सर्वसंग्रहे बहुवचनानीकरणं न कथमपि विचारसहमिति चेत्, अत्रेदमामाति, यत्र लोके लोकोत्तरे वा सामान्यप्राधान्येनाऽभेदेकत्वसंख्याया एवाश्रयणम् , तत्र श्रौतमार्थ वा एकवचनमेव युक्तम् , यत्र तु बौद्धमेकत्वं प्रकृतिपर्यवसितं क्रियते, तत्र सर्वसंग्रहनयोऽपि बहुवचनमेव प्रयुक्त, यथा का सेनति प्रश्ने हत्यश्वरथपातय इति, किं पनमिति प्रश्ने पुन्नागनागसहकारतालतमाला इति । तेन व्यणुकादीन्यनताणुकपर्यवसानानि द्रव्याण्युद्दिश्य यत्रैकमानुपूर्वीसामान्य विधीयतेऽनुयोगद्वारादौ तत्र बौद्धमेकत्वं संग्रह विषयः, इह तु व्यवहाराभिधित्सितस्य विधिप्रतिषेधाभ्या जीवपदार्थविभागस्थ पुरुष इति विग्रहके तत्र राजपदस्य राजद्वयसम्बन्धिनि लक्षणा, एवमनुसन्धीयमानराज्ञा पुरुष इति विग्रहके तत्र राजपदस्य बहुराजसम्बन्धिनि लक्षणेति वस्तुस्थितौ विग्रहवाक्यविशेषाप्रतिसन्धाने तत्पुरुषोऽयमित्येतावन्मात्रज्ञाने राजपुरुष इत्यादौ राज्ञः राज्ञोः राज्ञां वेति भवत्येव जिज्ञासेति बोध्यम् । तद्रपेणेनि-अभेदैकत्वसङ्ख्यात्वेन रूपेणेत्यर्थः । वृत्ती तदवगम इति. समासे अभेदैकत्वसङ्खयाऽवगम इत्यर्थः । विरोधेनेत्यस्य न कथमपि विचारसहमित्यनेनाचयः । सामान्यप्राधान्येनेति-व्यक्तिविशेषमविवक्षित्वेत्यर्थः । श्रोतमिति-आगमसिद्ध मित्यर्थः । सौत्रमिति पाठस भवति सूत्रसिद्धमित्यर्थः । आर्थमिति युक्तिसिद्धमित्यर्थः । यत्र तु बौद्धमेकत्वं प्रकृतिपर्यवसितं क्रियते, तत्र सर्वसंग्रहनयोऽपि बहुवचनमेव प्रयुक्ते इति यत्र तु जीवानां स्वरूपतोऽनेकत्वेऽपि तेषां सामान्यरूपेण यदेकत्वं बुद्धया परिकल्पितं तद्वौद्धमेकत्वं प्रकृतिपर्यवसितं क्रियते बहुत्वमेव जीवत्वेनैकीकृतमतस्तदेकत्वस्य प्रकृतिभूलस्वरूपं बहनो जीवाः, अर्थात् जीवगतबहुत्वं तत्पर्यवसितं तत्स्वरूपविधानपरं विवक्ष्यते तत्र जीवव्यक्तीनां भिन्नत्वेन बहुवचनमेव न्यायमिति सर्वसंग्रहनयोऽपि बहुवचनमेव प्रयुङ्क्ते, तत्र दृष्टान्तद्वयमाह -यथेति-यथा सनेत्यत्र सेनागत बौद्धं हस्त्यश्वादीनामनेकेषां तत्समुदायत्वरूपसामान्यरूपेण बुध्या परिकल्पितं यदेकत्वं तत्प्रकृतिरश्वगजादिगता बहुत्वसंख्या तत्पर्यवसितं तदेकत्वं विवक्ष्यते इति, की सेनेति प्रश्ने एकत्वविशिष्टाया एव सेनाया विषयत्वेनोत्तरवाक्येऽपि तस्या एव विधेयत्वमिति हत्यश्वरथपदातय इत्यत्र बहुत्वविशिष्टानामेव विधेयत्वेऽपि न प्रश्नोत्तरभावानुपपत्तिः, प्रश्ने बहुत्वे पर्यवसितस्यैवैकत्वस्य विषयत्वात् । यद्यपि बहुत्वरूपमेकत्वं प्रश्नविषय इति सेनेत्यत्र बचनेन भाव्यम् तथापि तत्र प्रकृतिपर्यवसिनं बौद्धमेकत्वं नाश्रीयते इत्यकवचनम्, हस्त्यश्वरथपदातय इत्यत्र तु तत् प्रकृतिपर्यवसितमाश्रीयत इति बहुवचनामिति भावः । अनुयोगद्वारादौ " से कि तं संगहस्स अट्ठपयपरूवणया ? तिपएसिए आणुपुयी, चप्पएसिए आणुपुषी, जाव दसपए. सिए आणुपुथ्वी" इत्यादिस्त्रेण बहूनि द्रव्याण्युदिश्यकमेवानुपूर्वी सामान्य विधेयमिति सामान्यस्यैव प्राधान्येन ततयौ कत्वमेव विधित्सितं, न तु तत्प्रकृतिपर्यवसितं क्रियते इत्येकवचनमेव न्यायमित्याशयेनाह-तेनेत्यादि । इह विति-जीवा नौजीवा इत्यत्र स्वित्यर्थः।