________________
तस्पार्थविपरमागूढार्थदीपिका । पाशितमल-ठी संसायव जीवो गम्यते 1 मादनेन नोशब्दादेशप्रदेशी न बोध्येते । तन्नाह-समनार्थेत्यादि । भावितप्रायमेतत् । एवं तावच्चत्वारों विकल्पा एकवचनेन दर्शिताः, तद्विवचनबहुवचनाभ्यामपि जीवौ नौजीवा, अजीवो, नो अजीवी जीवा नीजीवा अजीवा नोअजीवा इत्येवं चत्वारश्चत्वारो द्र०याः } . तदाह-एवं जीवो जीवा इति । इतिशब्द आद्यर्थे, द्वित्वबहुत्वाकारितेषु द्विवचनबहुवचनाभ्यामुंचारितेषु, एवमेवाभ्युपगमी नैगमादीनाम् । अथ संग्रहस्य का वातत्याह-सर्वसंग्रहणेत्यादि । सर्वसंग्रहेण सामान्यवस्तुप्राहिणा एकवचन द्विवचनान्ता विकल्पा नाभ्युपगम्यते । तांश्च विकल्पान् दर्शयति-जीवो नोजीव इत्यादि। एकद्वित्वाकारितेषु एकद्विवचनान्तपूच्चारितेषु, शून्यं भवति, एकद्विवचनान्तपदमबीधमिति व्युत्पत्तिमततो बोधो न भवतीत्यर्थः । हेतुमाह-५५ होति । ए५ संग्रहो, यस्मात्संख्याया जीवगताया आनन्यं प्रतिपद्यते, पञ्चगतिवतिना तेषा पहुयात् । यथार्थवाही चायमिति पईन् बहुवेनैव गृह्णाति । ततो जीवा नोजीवा, अजीवा नोअजीवा इत्ययभेवास्याभिलापः कार्यः । उदाहरणान्यपि च बहुत्वेनैव वाच्यानि । शेषास्तु नैगमादयो नयाः, एकस्मिन् जीवशब्दार्थे. ऽभिधेये, व्यक्त्येकत्वादेवकवचनं, जीवसामान्येऽप्यभिधेये सामान्यैकत्वादेकवचनप्राप्तौ " जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् ” इति लक्षणेन जात्यपेक्षं सामान्य विषयापेक्षं बहुवचनं बहुषु जीवेष्वभिधेयेषु व्याशिबहुत्वादेव बहुवचनमिच्छन्ति । यतस्तत इति शेष. । साकारित्वग्राहिण एकवचनादिभिराकारितान् द्वादशापि विकल्मान् गृह्णन्तीत्येवंशीला भवन्ति । ननु सर्वसंग्रहो पहुवचनमेव सहत इति यदुतं तत्कथं युक्तम् , तस्य सामान्यविषयत्वेनैकवचनसहिष्णुताया एवं युक्तत्वात् , पाक्षिकबहुवचनप्राप्तेरपि जात्याख्यायामिति समाख्यानुरोधेन सामान्यरूपेण व्यक्त्यभिधानस्थले नैगमादिमिरेव चरितार्थीकतुं शक्यत्वात ।
समप्रार्थत्यादीति-समग्रो देशप्रदेशकल्पनारहितो निरवयव एकाभिधानाभिधेयो यः प्रतिपूर्णोऽर्थोऽखण्डवस्तु, न तु सांश, तागते वास्तविकदेशदेशिनोरभावेनांशांशिभावाभावात् स समग्रार्थः, तं ग्रहीतुं शीलमस्य स समग्रार्थग्राही तस्य भावस्तत्वं तस्मादित्यर्थः । उक्तश्चानु. योगद्वारे " एवं पयंत समभिरूढ़ संपइ एवंभूओ भणई जं जं भणसि तं तं सर्व कसिणं पाडपुण्णं निरवसेस एगगहणगहियं देस वि मे अवत्थू पएसेऽवि मे अवत्थू" इति । जात्याख्याथामेकस्मिन् बहुवचनभन्यतरस्यामिति १-२-५८ । जातिवाचिनि शब्दे एकव्यक्तावपि विकल्पेन बहुवचनं भवतीत्यर्थः । जात्यपेक्षमित्यस्यार्थमाहसामान्यविषयापेक्षमिति । तत्किमित्यत आह बहुवचन मिति । अत एवैकस्मिन्नपि साधौ साधवः पूज्याः साधुः पूज्य इति विकल्पेन प्रयोगो भवतीति भावः । जीवशब्दस्य यदि बहवो जीवा वाच्या इति विवक्षा तदा नोक्तसूत्रेण बहुवचनं किन्तु " बहुषु चैव बहुवचनम् ॥ इति सूत्रणेत्याशयेनाह--बहुषु जीवेष्विति । सामान्यरूपेण व्यक्त्यभिधानस्थले इतिः विशेषरूपेणाविवक्षितव्यक्त्यभिधानस्थल इत्यर्थः । चरितार्थीकर्तुं शक्यत्वादिति-उक्तनानुरोधेन सामान्यरूपेणैव ...