________________
कार्थविवरणगूढार्थदीपिका | पंचत्रिंशतमसू० दी०
I
: ३५१ : एवं त्वं न पचसीर्त्यत्र त्वदर्मिन्त्राश्रयकृपा कानुकूल भावनाभावः घटो नास्तीत्यत्र घटामिन्नाश्रयकास्तित्वाभाव इति रीत्या बोध: । 'असमस्तनञः क्रियायामेवान्वयात् । स चाभावो ऽत्यन्ताभाववान्योन्याभावत्वरूपेण शक्यः, तत्तद्रूपेण बोधादिति शब्दविदः । तत्र स्वं पाकानुकूलयत्नाभाववान् षटोऽस्तित्वाश्रयत्वाभाववनित्येवमेव बोधः, प्रतियोग्य भावान्वययोस्तुल्ययोगक्षेमत्यात्प्रतियोगिनश्चाख्यातार्थस्य प्रथमान्तपदार्थ एवान्वयादिति तु न्यायविदः । एतन्मतमेव युक्तं नः पूर्वमतम् । घटो न पचति अतीतघटो नास्तीत्यादौ घटामिन्नाश्रयकपाकानुकूलभावनाया अतीतघटामिन्नाश्रयकास्तित्वस्य च निषेव्यस्याप्रतीतेः, अभावविशेष्यकबोधे येत्याकाङ्क्षानुपस्माच्च । अन्ध आकाशं न पश्यतीत्यत्र चाकाशकर्मकत्वाभाववद्दर्शनाश्रयलाभाववानव इत्येव बोधो नञो द्वेधान्ययादित्यादिकं भावनीयम् । तस्मात्सुष्ठुक्तं अजीव इत्यत्र नञः सर्वनिषेघोऽर्थं इति । नोशब्द्रस्य तु न नञ् समानशीलत्वं परिभाषानुरोधेन देश सर्वनिषेधयोः प्रवृत्तिदर्शनादिति किमतिप्रसङ्गेन ||'प्रकृतं प्ररुमः, एवं तावन्नैगमादयश्चतुर्षु जीव इत्यादिषु विकल्पेषु प्रवृत्ता, एवंभूतस्तु नैव' इत्यर्थः ॥ तथा चोत्तरपदार्थनिष्ठविशेषणतानिरूपितविशेष्यतया भावान्वय पक्ष एव श्रेयानिति भावः । प्रसज्यप्रतिषेधार्थकनको व्यवस्थामाह एवं त्वमित्यादि । नञ्जर्थे युष्मदर्थान्वये तु प्रकृते पुरुषव्यवस्था न सिद्ध्येदिति सूचयितुं पचसीति मध्यमपुरुषनिर्देश इति । क्रियाप्रतियोगि काभावविशेष्यकमोघे हेतुमाह - असमस्तनत्र इति - एवं त्वमित्यादिना व्याकरणमतमुपदः न्यायमतमाह-तत्रेत्यादि । नञावटितवाक्यार्थे यस्य विशेष्यलं नञ्यतिवाक्यार्थेऽपि तस्य विशेष्यत्वमित्यभिप्रेत्याह-प्रतियोग्य भावान्वययोरिति । तथा च त्वं पचसीति नञवटिते वाक्ये पचसीत्याख्यातार्थस्य पाकानुकूलकृतिरूपस्य प्रथमान्तत्वंपदायें विशेष्येऽन्वयात्प्रकारत्वमिति त्वं न पचसीति नञ्घटितवाक्पेऽपि पाकानुकूलकृतिरूपस्याख्यातार्थस्य प्रतियोगितासंसर्गेण नञर्थेऽभावेऽन्वयः, तस्य च प्रथमान्तसंपदार्थे विशेष्येऽन्वयात्प्रकारत्वमेवेति भावः । अप्रतीतेरिति-तथा चालीकप्रतियोगि कनिषेधाऽयोगात निषेधोधो न स्यादिति भावः । अभावविशेः व्यबोधे क्वेत्याकाङ्क्षाऽनुपरमाचेति सोऽभावः कुत्र वर्त्तत इत्याकाङ्क्षाऽनुपरमाच्चेत्यर्थः । नैगमनये न हि व्युत्पत्तिनिमित्तमेत्र प्रवृत्तिनिमित्तम्, तथा सति गच्छतीति गौरिति व्युत्पत्तिनिमित्तगमनक्रियाकर्त्तरि महिषेऽपि गोव्यवहारस्स्थात्, किन्तु ततो भिन्नमेव तदिति जीवति - दशविधप्राणान् धारयतीति जीव इति व्युत्पत्तिनिमित्चदशविधप्राणधारणक्रियायाः 'सिद्धजीवेऽभावेऽपि जीवपद शक्यतावच्छेदकजीवत्व जातेस्तत्रापि सद्भावेन सिद्धोऽपि तन्मते जीव एव, एवम्भूतनयस्तु व्युत्पत्तिनिमित्तमेत्र प्रवृत्तिनिमित्तमम्युपगच्छतीति जीवति यथायोगं दशविधप्राणधारणमनुभवतीति जीवः, स च संसार्येव, न तु सिद्ध:, जीवन परिणामरहितस्वेन जीवशब्दार्थांघटनादिति स आयुष्मान् प्राणीत्यादिवजीव इत्यपि न व्यपदिश्यते, किं तर्हि, सत्तायोगात् सत्त्वः, अति ताँस्तान् ज्ञानदर्शनसुखादिपर्यायान् गच्छतीत्यात्मा इत्यादिशब्दैरेव निर्दिश्यते, उक्तञ्च विशेषावश्यकमाण्ये - "एवं जीवं जीवो, संसारी प्राणधारणानुभवो । सिद्धो पुणरजीवो जीक्परिमाणरहिओचि ॥२२५६॥” २९
-एवम्भूतस्तु नैव