________________
तस्वार्थविवरणपूढार्थदीपिका । पंचत्रिशतमसू० टी० स्तिकायावरुद्धत्वषद्रव्यकोडीकृतत्वधमैरेकत्वद्वित्वत्रित्वचतुष्टुपश्चत्वषट्वाध्यवसायानां भिन्नत्वादविरुद्धकोटिकत्वाद्वा न विप्रतिपत्तित्वं तथा नयवादेवपीति पिण्डार्थः । स द्वित्वमित्यादौ धर्मिणि विधेये धर्मे विधानं धर्मधर्मिणोरभेदाभिप्रायेग। असद्धर्माध्यारोपाभावेन विप्रतिपत्तित्वं परिहत्य क्षयोपशमविशेषात् पृथम् विशेषग्राहित्येन तां परिहर्तुमाह किं चान्यदिति । पर्यायविशुद्धिविशेषादुत्कणेति पर्याया-भेदा मत्यादयः, तेषा विशुद्धिः स्वावरणापामजनिता स्वच्छता, तस्या विशेपो भेदस्तस्मादुकों विषयताभेदस्तेनेत्यर्थः । यथा मतिज्ञानी मनुष्य जीवस्य मनुष्यपर्यायं वर्तमान चक्षुरादिनेन्द्रियेण साक्षात्परिच्छिनत्ति, " तमेव श्रुतज्ञानी आगमेनानुमानस्वभावेन, तमेवावधिज्ञानी अतीन्द्रियेण ज्ञानेन, तमेव मनःपर्यायज्ञानी तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्तानि मनोद्रव्याणि दृष्ट्वाऽनुमानेनैव, केवलज्ञानी पुनरत्यन्तविशुद्धेन केवलन, न चैता विप्रतिपत्तथो विरुद्धाः प्रतिपत्तयः, स्वसामर्थन विषयपरिच्छेदात्, तद्वयवादा इत्यर्थः । वहुबहुतरादिपर्यायवाहित्वान्मत्यादीनां यथा विशेषो न च विप्रतिपतित्व तथा नयवादानामित्यन्थे व्याचश्यते । एकविपये प्रवर्तमानानामेषां प्रत्यक्षादिवद्विलक्षणत्वादेव न- विप्रतिपत्तित्वमित्याह-यथा इति जीवाजीवात्मकत्वधर्मेण सर्वस्य द्वित्वाध्यवसाय:, 'सर्व यात्मक द्रव्यगुणपर्यायात्मकत्वाद' इति द्रव्यगुणपर्यायात्मकत्वधर्मेण सर्वस्य त्रित्वाध्यवसायः, “सर्व चतुष्टयात्मकं चतुर्दर्शनविषयत्वाद् ' इति चतुर्दर्शनविषयत्वधर्मेण सर्वस्य चतुष्ट्वाध्यवसायः, सर्वं पञ्चात्मकं, पञ्चास्तिकायावरुद्धत्वाद्' इति पञ्चास्तिकायविरुद्धवधर्मेण सर्वस्य पञ्चत्वाध्यवसायः, 'सर्व षट्स्वरूपं पद्धयक्रोडीकृतत्वाद्' इति षड्द्र०यक्रोडीकृतत्वधर्मेण सर्वस्य पट्याऽध्यवसाय इत्येवमुक्तानां पणामध्यवसायानामित्यर्थः । पर्वते धर्मिणि वह्नौ विधेये सति पर्वतो पतिमानिति विधानवत् पदार्थमात्रे धर्मिणि द्वित्वे विधेये सति सर्व द्वित्ववदित्येवमुद्देश्यविवेयभेदसम्बन्धार्थकमतुष्प्रत्ययघटितमेव विधानं युक्तं न सर्व द्वित्वमित्याशक्षा मनसि कृत्वा तनिवृत्त्यर्थमाहसर्व द्वित्वामित्यादाविति । धर्मास्तिकायादीनामन्यतमो यः कश्चिदेकः पदार्थस्तस्य मत्यादिज्ञानैरन्यान्यप्रकारेणोपलब्धौ हेतुमाह पर्यायविशुद्धिविशेषादुत्कर्षेणेति । तदथेमाह- पर्याया भेदा इत्यादिना । तस्य मनुष्यपर्यायस्य यः प्रश्ने प्रवर्तते तद्गतानीति मनुष्यपर्यायविषयकप्रश्नकर्ता यस्ततानि तेनैव काययोगेन गृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानि, तद्विचारानुगुणानीति यावत् । अनुमानेनैवेति-अयं पुरुषः मनुष्यपर्याय प्रष्टुमभिलपति तदाकारमन:परिणत्यन्यथानुपपत्तरित्यनुमान वेत्यर्थः । अथवा एतत्पुरुषहृद्रातप्रश्नो मनुष्यपर्यायविषयक, तदाकार मनःपरिणामान्यथानुपपत्तरित्यनुमानेनवेत्यर्थः । एकस्मिन्नेव विषये कारणभेदेन मत्यादीनां भेदमुपदय विषयभेदेन तदुपदर्शनप्रवणमन्येपातमुपदर्शयति बहुवहुतरादिपर्यायवाहित्यादिति, अस्थायम्भाव:-मतिज्ञानी मनुध्यादेजीवस्याल्पपर्यायान् परिच्छिनत्ति, ततश्श्रुतज्ञानी बहुपर्यायान् अवधिज्ञानी च बहुतरपर्यायान मन:पर्यायज्ञानी च विशुद्धिप्रकर्षाद बहुतमपर्यायान् केवलज्ञानी च सर्वपर्यायानिति ।। यथैतेऽल्पाधिकतरादिपर्यायग्राहियेन मत्यादिज्ञानविशेषरूपा ज्ञानभेदा अपेक्षाभेदप्रयोज्याविरो