________________
: ३४३: तत्त्वार्थविवरणगूढार्थदीपिका । पचत्रिंशत्तमम० टी० क्लार्थकत्वेन स्वार्थप्रतीतावसमुह्यमानार्थकत्येन चन्द्रशब्दस्य पुरन्दरादिशब्दाः पर्याया भविष्यन्ति । एतदप्या सत् । एवं हि सामान्यविशेपशव्योरपि पर्यायत्वं स्यात् । प्लक्ष इत्युक्ते द्राग वृक्षेऽपि संप्रत्ययात् । वृक्षाऽ स्तित्वेऽसंमोहाच्च । किं चैवं प्रविश पिण्डीमित्यत्र नियतं गम्यमानस्य गृहस्य भक्षणस्य प्रथमपुरुषे प्रयुज्य. मानेऽस्तीत्यस्य च गम्यमानस्य पर्यायतापत्तिः । न चैकशक्यतावच्छेदकत्वमेव पुर-दरादिशब्दानां पर्यायस्वमित्यपि सम्यक्, जातिवदाकृतेरपि.शक्यतावच्छेदकत्ये तथा वक्तुमशक्यत्वात् । न चैकपदशक्यताकतिर्यस्थार्थस्य स स्वार्थप्रतीतिनियतप्रतीतिकार्थः, सोऽर्थो वाच्यत्वेन यस्य पुरन्दरादिशब्द स्म तद्धावस्तत्वं तेनेत्यर्थः । यदैवेन्द्रशब्देन तद्वाच्येन्द्रार्थप्रतीतिस्तदैव तन्नियतपुरन्दराद्यर्थप्रतीतिजर्जायते इति नद्विषयीभूतार्थवाचकत्येनेति यावत् , असंमुद्यमानार्थकत्वेनेति-संमोहः-अज्ञान तंद भावोऽस मोहः तद्विषयीभूतोऽर्थोऽसम्मुह्यमानार्थः, सोयों वाच्यत्वेन यस्य तद्भावस्त तेनेत्यर्थः । असंमुह्यमानार्थवाचक्रत्वेनेति यावत् । " नहि स भवन्तो यावन्त एव दोषी उद्भाव्याः किन्तु यथाकाममेकः" इति न्यायेन यथा दोषाणां मध्यादेकस्यैव दोषस्योद्भावनं युक्त तथैवोक्तन्याये दोषो गुणस्याप्युपलक्षणमित्यनुमापकतया गुणरूपस्य हेतोः एप्पेकस्यैवोझानं यद्यपि युक्तम् , तथापि " प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तकरसिका" इति वचनाद्यथा प्रत्यक्षप्रमाणप्रसिद्धेऽपि वस्तुनि तत्प्रसिद्धि दाढर्यायानुमानप्रवृत्तिः, तथैकलिङ्गप्रसिद्धेऽप्यर्थे तद्दाढर्याय लिङ्गारोपन्यासो युक्त एव, अत एव च पर्वतो वह्निमान् यूमादालोकाचेति वह्वयधिगतये धूमलिङ्गोपादानवदालो कलिङ्गस्याप्युपादानमिति प्रकृते हेतुद्वयोपादानं -नासङ्गतम् । इन्द्रपुरन्दरादिशब्दानां व्युत्पत्तिभेदप्रयोज्यार्थभेद सद्भावेऽपि पर्यायत्वाऽभ्युपगमेऽतिप्रसङ्गदोषापादनेनोक्ताशकोत्तर माह-एतदप्यसदिति, एवं हीति-हि-यतः, निरुक्तहेतुभ्यां पर्यायत्वसाधने । विशेषवाचकशब्दसखार्थप्रतीतिनियतप्रतीतिकार्थवाचकत्वं सामान्यवाचकशब्दे व्यवस्थापयतिप्लक्ष इत्यु इति । न च प्लक्षशब्दपर्यायत्वं वृक्षशब्दखेति प्रथमहेतुर्व्यभिचारित इत्यभिसन्धिः । विशेषवाचकसदस्य स्वार्थप्रतीतावसंमुद्यमानार्थवाचकत्वं सामान्यवाचकशब्दे उपपादअति-वृक्षास्तित्व इति-अत्रापि प्लक्ष इत्युक्त इत्यनुवर्तते, प्लक्ष इति वचनाद् वृक्षविशेषरस प्लक्षस्य प्रतीतौ वृक्षोऽस्ति न वेत्यादि संशयादिलक्षणसंमोहो न भवति, किन्तु वृक्षास्तित्वस्य निर्णय एव भवति अतः प्लक्षाऽपर्याये वृक्षशब्दे गतत्वाद् द्वितीयहेतुरपि व्यभिचारित इत्याशयः ।
दाध्याहारपक्षे प्रविशेत्युक्तौ गृहभित्ययाहृत्य गृहं प्रविशेति पाक्यत एवं पिण्डीमित्युक्तो -पिण्डी भक्षयेति वाक्यतो देवदत्त इत्युक्तो देवदत्तोऽतीति वाक्यतश्चान्वयबोधोदयात्तत्र सर्वत्र
गम्यमानपदान्तरार्थस्य श्रूयमाणपदार्थप्रतीतिनियतप्रतीतिकवेन तद्वाचकपदस्य पर्याय तापतिरिलाह-किश्चैवमिति । आशङ्कते --न चेति । अस्येत्यपि सम्यगित्यनेनान्वयः। निषेधे हेतुमाह-जातिवदाकृतर पीलादि। तथा च पुरन्दरादिशदानामपि भिन्नप्रवृत्तिनिमित्तकत्वादेशक्यतावच्छेदककत्वं पर्यायत्वमिति वक्तुमशक्यत्वादित्यर्थः । न चेत्यस्य पर्यायस्पमित्याने- '