________________
तत्यार्थविवरणमूढार्थदीपिका । पञ्चाशत्तमसू० टी० :३३५: ताशान्यतस्त्वविशेपो वा नैगमनयलक्षण योध्यम् । एवमग्रेऽप्यध्यवसायविशेषान् परिगृह्य तवृत्तिजातिगर्माणि भेदगर्माणि वा लक्षणानि वाच्यानि ॥ संग्रहं लक्षयति-अर्थानामित्यादि । अर्थानां घटादानां सर्व देन समानाधिकरणयोरवच्छेयावच्छेद कभावः, नयनिरूपितयोश्च तयोरेकवस्तुविभिन्नांशमात्रगतयोनविच्छेयावच्छेदकभाव इति मियोऽबच्चाबच्छेदकभावानापन्नयोरेव सामान्यविशेषविषयत्वविशेषयोनिरुक्तनगमलक्षणे प्रवेशात् , तथापि-" धर्मयोधर्मिणोधर्म-धर्मिणोश्च विव. क्षणम् । गुणप्रधान भावन नैगमस्तद्विदा मतः ॥१॥” इत्युक्तलक्षणनगमस्य सचैतन्यमात्मनि १ वस्तु पर्यायवद्र०यम् २ क्षणमेकं सुखी विषयासक्तजीवः ३ इत्युदाहरणत्रयेवव्याप्तिस्स्यात् , तत्र प्रधानोपसर्जनभावविवक्षणादिति तद्वारणाय प्राधान्येन सामान्यविषयकाध्यवसायवृत्तित्वे सति प्राधान्येन विशेषविषयकाध्यवसायवृत्तिद्रव्यार्थिकत्वच्याप्यजातिमत्त्वमित्युक्तम् , तथा च धर्मद्वयविषयो धर्मियुग्मगोचरो धर्मधालम्बनश्चेति नेगमभेदत्रयेऽपि नैगमत्यजातिमादायोक्तलक्षणसमन्वयानाव्याप्तिः । एवञ्च घटोऽयं पटोऽयमित्याधेकैकधर्मभात्रावगाह्यध्यवसायेष्वपि तादृशाध्यवसायवृत्तिद्रव्यार्थिकत्वव्याप्यनगमत्यजातिवर्तत इति न तेष्वप्यव्याप्तिः । अत्राप्यन्यत्सर्वं पूर्ववदूधमिति “धर्मयोधर्मिणोधर्म-धर्मिणोश्च विवक्षणम् । गुणप्रथानभावेन, नैगमस्तद्विदा मतः ॥१॥" इति श्लोकेन "धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसभावेन यद्विवक्षणं स नैकगमो नैगम इति" १७-७॥ प्रमाणनयतत्वालोकालङ्कारसूत्रानुसारिणोक्तस नैगमनयलक्षणस्य पर्यवसानश्चैवं ज्ञेयम्पर्याययोव्यवस्तुनोः पर्यायव्ययोश्च मुख्यामुख्यरूपतया यो विवक्षात्मकाऽभिप्रायस्तवृत्तिद्रव्यार्थिकत्वव्याप्यजातिमा नैगमनयत्वमिति । अत्र नैगमस्य धर्मद्वयगोचरप्रथमभेदस्यो. दाहरणम्-"सचैतन्यमात्मनीति" तत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यतयामुख्यत्वेन सत्तास्यस्य च व्यञ्जनपर्यायस्य चैतन्यविशेषणत्वनामुख्यत्वेन विवक्षणम् । नैगमस्य धर्मियगोचरद्वितीय भेदस्योदाहरणम्-" वस्तु पर्यायवद्र्यमिति" अत्र पर्यायवद्र्व्यं वस्तु वर्तत इति विवक्षायां पर्यायवद्रव्याख्यस्य धर्मिण उद्देश्यतया विशेष्यत्वेन प्राधान्यम्, वस्त्वाख्यस तु धर्मिणो विधेयत्वेन प्रकारतया गौणत्वम् । यद्वा किं वस्तु पर्यायवद्र्व्यमिति विवक्षायां वस्तुनो विशेष्यत्वात्प्राधान्यं पर्यायवद्र०यस्य विधेयतया प्रकारत्वविवक्षणाद् गौणत्वम् । धर्मधर्मिगोचरतृतीयभेदस्योदाहरणम्-"क्षणमेकं सुखी विषयासक्तजीव इति" । अत्र विषयासक्तजीवाख्यस्य धर्मिणो मुख्यता, विशेष्यत्वात् , सुखलक्षणस्य तु धर्मस्याप्रधानता, तद्विशेषणत्वेनोपात्तत्वादिति । न चास्यवं प्रमाणत्वानुपङ्गः, धर्मधर्मिणोईयोः प्राधान्ये नात्र ज्ञप्तरसम्भवात्। तयोरन्यतरदेव हि नैगमनयेन प्रधानतयाऽनुभूयते, प्राधान्य द्रव्यपर्यायद्वयात्मकं चार्थमनुभवद्विज्ञानं प्रमाणं प्रति-पत्तव्यं नान्यदित्युक्तं प्रागेव । सङ्ग्रहादिनयचतुष्टयनिष्ठा पक्षा. तरेण सङ्ग्रहादिनयत्रयागतां यदि द्रव्यार्थिकत्वजाति कोऽपि नाभ्युपगच्छेत्तदाप्याह-तादृशान्यतरत्पविशेषो वेति । अध्यक्षसायविशेषाणां नैगमस्वरूपाणां नानात्वेऽप्यन्यतरत्वेन यत्तेषामुपादानं तदनेकभेदावच्छिन्नप्रतियोगिताकभेद एवान्यतत्वमित्यभ्युप्रेत्य, न तु भेदद्वयावच्छिन्नप्रतियोगिताकभेदलक्षणम् । इत्थ