________________
। ३३२
तरवार्थविवरणपूढार्थदीपिका । पञ्चत्रिंशत्चमसू०टी० पां विषयतया तदाश्रयस्याक्षेपादेव लाभः, तेषामदृष्टदशरथादीनामपि दशरथादिपदाददशरथव्यावृत्तिधीविषयत्वेनोपस्थितिरत्यन्तासतोऽपि चार्थस्य वासनाविशेषोपनीतबुद्धिप्रतिविम्वविषयत्वेन धीः सुलभा । एवमेते सर्वेऽपि शब्दार्थाध्यवसाया नैगमनये संभवन्ति, शब्दत उपस्थित्यभावात् , यद्यपि बौद्धमते शब्दानां प्रामाण्याभावानार्थविषयकशाब्दयोषजनक स्वं, न वाऽपोहस्यापि श०६जन्यबोधे प्रतिभासनम् । “विकल्पयोनयः शब्दाः, विकल्पाः २०६योनयः। कार्यकारणता तेषां, नार्थ शब्दाः स्पृशन्त्यपि" ||१|| इति वचनाद् विकल्पमात्रजनकत्वमेव शदानाम् , तथापि नैगमनयप्रसूते मते जुसूत्रप्रस्तबौद्धमतस्य न प्रताव इति य एवापो
शब्दार्थवादिनो वाबस्थापि प्रतिभासनं शा०दे रीकुर्वन्ति त एवापोहशदार्थाऽभ्युपगममात्रण बौद्धसजातीया अत्राधिकृता इति तेषां सतेऽर्थस्थापि सति सम्भवे शादे प्रतिभासनं तदर्थानुपस्थिती कथं स्यादित्यत आह-तेषामिति-मत इति शेषः, विषयतया तदाश्रयस्थापादेव लाभ इति-बुद्धिप्रतिविम्वरूपस्यान्यापोहस्य विषयतासम्बन्धेनाश्रयस्य पाह्यवस्तुनो घटादेराक्षेपादेव लक्षणात एव लाभः-शाबोधविषयत्वम् । यद्यपि विषयं विना बुद्धिप्रतिविम्योनोपपद्यते इत्येवमर्थापत्तिलक्षणादाक्षेपाललाभ इत्यप्यर्थः सम्मुखीनः, तथापि वृत्तिविषयस्येव शान्बोधविषयत्व, शाब्दबोधविषय एव श्रुतत्यव्यवहारो नार्थापत्तिविषय इत्यत आक्षेपादित्यस्य लक्षणात इति व्या. ख्यानम् , अत एव जातिशक्तिवादिमते आक्षेपादेव व्यक्तिलाभ इत्यत्राक्षेपादित्यस्य लक्षणात इत्यर्थोऽन्यत्र कृत इति । तेषाम्-अन्यापोह शब्दार्थवादिनाम्, मत इति शेषः, दशस्थादिपदस्थ दशरथादिरूपार्थे शक्तिग्रहणं न सम्भवति, प्रत्यक्षप्रमाणप्रतीत एवार्थे शक्तिग्रहो व्यवहारादितो भवति, ये चेदानीन्तनाः प्रमातारोऽतीतानां दशरथादीनां न प्रत्यक्षज्ञानचन्तस्तेषां तत्र शक्तिमहाभावान शाब्दबोधविषयतासम्भवः, किन्तु तेषामपि दशरथादिपदावसिनाविशेषसहकवाददशरथच्यावृत्तिधीविषयत्वेना थानामपि दशरथादीनामुपस्थितिः सम्भवति, अघटितघटनापटुमायास्थानीया वासना, तद्विशेषादुपनीतं यद्बुद्धि प्रतिविम्वविषयत्वं तेन तेषां बुद्धिर्नाऽसमाव. नापथमवरतीत्यर्थः, उपसंहरति एवमिति-अथवेद नैगमस्य लक्षणं द्रष्टव्यम् “अनियनाऽर्थसंकल्पमात्रग्राही नैगमः" इति । निगमो हि सङ्कल्पस्तत्र भवत्प्रयोजनो पा नैगमः। यथा कश्चित्पुरुषो गृहीतकुठार: पथि गच्छन् किमर्थं भवान् गच्छतीति केनचित्पृष्टः प्रतिवक्ति प्रस्थकमानेतुमिति, अटयां गतस्सन् काष्ठं छिन्दानः " भवान् कि छिनत्ति ?" इति पृष्ट सन् प्राह प्रस्थकं छिनभि । मार्गे चागच्छन् पृटः किमिदं स्कन्धे त्वयाऽऽरोपितम् ?, स आह'प्रस्थकः । एमाश्यन् , घटयन् , उत्किरन् , श्लक्ष्णीकुर्वन् , नाम च तत्राऽऽकुश्यन् यावद् धान्यमाने च व्यापारयन् किमिदं ? इति पृष्टस्सन्नाह प्रस्थकोऽयमिति । एधोदकाधाहरणे वा कश्चित्पुमान् व्याप्रियमाणः किं करोति भवानिति केनापि पर्यनयता पाह-ओदन ५चामीति । न च प्रस्थपर्याय ओदनो वा निष्पनः, तनिष्पत्तये कारणे कार्योपचा२वृत्या तस्मिन् तदध्यवसाय सङ्कल्पमात्र प्रस्थादिव्यवहारात् । अयम्भाव: प्रस्थकमानेतुमित्यत्र प्रस्थकरदस्थ प्रस्थकदलयोग्यवृक्षे उपचारः, प्रस्थकं छिननीत्यत्र प्रस्थकपदस्य