________________
वार्थविवरणगूढार्थदीपिका । पंचत्रिंशत्तमसू० टी० : ३२७ : पदार्थ इयं व्यक्तिरिदं वस्थिति व्यवहारस्तटतटी तटमिति चोपपद्यते । अत एव पशुनेत्यादौ पुल्लिङ्गपशु५दप्रयोगान्न छाण्यादिलामः। न च ०यपत्यादिशब्दोक्तलिंगवत् पश्यादिशब्दाक्तस्य साधारण्यं शक्यम् , व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथासम्भवेऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावात् । मीमासायां चतुर्थे पशुना यजेतेत्यत्रैकत्वपुरत्ययोर्विवक्षितत्वान्नानेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च । यदि च विशेषविध्यभावे उप्रत्ययान्ताना 'स्वस्थ व्याकरणे निर्णीतत्वात्पशब्दस्य नित्यपुर निीयते, तदा पशुनेत्यादिविधौ मन्त्रवण यायनेवै छागो मीमासकैः प्रतिपादनीयः, कामधेनुरपि या पशुरेवेत्यादौ च त्पादिकमर्थनिष्ठ लिङ्ग नैतच्छास्त्रथिप्रक्रियानिर्वाहकम् , दारानित्यादौ शस्प्रकृत्यर्थे तदभावेन नत्वाधनापत्तेः, एकस्मिन्नर्थे “ पुष्यस्तारका नक्षत्रम्” इति लिङ्गनानात्वदर्शनाच, किन्तु पारिभाषिक शब्दनिष्ठमुक्तलिङ्गमवेत्यर्थत्वे चेत्यर्थः। उपपद्यत इति-अर्थनिष्टस्य लिङ्गस्य व्यवहारोपपयिकत्वे तु स्त्रीव्यक्तिवस्तुपदार्थपदाभ्यां पुरुषादिरपि व्यक्त्यादिशब्दनै व्यवस्थितेति भावः । अत एवंति-शब्दनिष्ठस्यैव पारिभाषिकलिङ्गस्य स्त्रीपुंसादिव्यवहारोपयोगित्वादे वेत्यर्थः। पशुनेत्यादौ पुल्लिङ्गपशुपदप्रयोगान्न छाम्यादिलाभ इति-यदि स्त्रीपशुर्यागाङ्गत्वेन विवक्षितोऽभविष्यत्तदा अस्वीपिहितनामावं विभक्त्यन्ते न प्रयोक्ष्यत् । तद पशुपदप्रयोगात्तु पुम्पसुरव यागागामिति निर्णायत इत्यर्थः । स्त्रीलिङ्गार्थकपशुशब्दात् "आङ्गो नाऽस्त्रियाम् " (पा० सू०७।३।१२० । ) इति सूत्राविहितनामावस्य तृतीय कवचनेसम्भवेन तदपशुशब्दप्रयोगात् तदर्थस्य पुंस्त्वावगतेरिति भावः । न चेत्यस्य शक्यमित्यनेनान्वयः। यत्यादीति-अत्रादिना वस्त्यादिपदसंग्रहः । साधारण्य मिति-स्वाश्रयवाच्यत्वसम्बन्धेन स्त्रीवृत्तित्वमित्यर्थः । निषेधे हेतुमाह-व्यक्तिसदस्येत्यादिना । नित्यस्त्रीलिङ्गत्वेन व्यक्तिशब्दस्य तेन रामादीनां पुंसां बोधसम्भवेऽपि पशुशदो न नित्यपुलिग इति न तेन छायादिस्त्रीवोध इत्यर्थः । ननु पशुना यजेत इत्येष पैदिकप्रयोग एवं पशब्दस्य नित्यपुंस्त्वे मानमिति चेत्, मैवम् , ऋग्वेदे " पश्वाऽनतायुं गुहा चरन्त " " पश्व नृभ्यो यथा गवे" इत्यादिप्रयोगदर्शनात् पशुशदस्य स्त्रीलिङ्गत्वस्यापि दर्शनेन नित्यपुल्लिङ्गत्वाभावात् , तथा च तस्य न व्यक्त्यादिशब्दसाम्यमिति न पुल्लिजैन पशुशब्देन छायादेवोध इति भावः। स्योक्तेऽर्थे मीमांसकसम्मतिमाह-मीमांसायामिति । विशेषविध्यभाव वाधकसूत्रामा। निर्णीतत्वादिति-लिङ्गानुशासने " उप्र. त्यया-:" इति सूत्रेण निर्णीतत्वादित्यर्थः । नित्यपुंस्त्वं निर्णीयत इति पशुशदस्य नित्यपुल्लिङ्गत्वे च पशुत्वावच्छिन्नवाचकवन छाया: पशुत्वविशिष्टतया तेन तद्योधोऽपि स्यादिति न पु-पशोरेय यागाङ्गत्वनिर्णय इत्यत आह-तदत्यादि । मन्त्रवर्णन्यायेन “ छागो वामन्त्रवर्णात् " इति न्यायन । अयमभिप्रायः मन्त्रवणे हि "छागस्य पाया - मेदसः" इति श्रूयते तत्र पुंस्त्वविशिष्टछागपदोपादानादत्रापि पुल्लिङ्गपशुपदेन पुम्पशुरव यागाङ्गतया निर्णीयते, न स्त्रीपशुरिति । कामधेनुरपि या पशुरेवेत्यादी चेति. अत्र कामधेनुवोधकस्य यच्छदस्य विशेष्यवाचकस्य स्त्रीलिङ्गत्वेऽपि विधयीभूतपशुबोधकस्य