________________
पार्यविवरणदार्थदीपिका । पंचशित्तमसू० टी०
: ३२३: भितिवच्छदार्थपरिज्ञानमेव नैगमो न तु परिज्ञायमानः शब्दार्थ इति पक्षे च द्वितीयाभिधानमिति मत. भेदानानुपपत्तिरिति युक्तं पश्यामः । स च सामान्यविशेषावलम्बीत्येतदर्शयति देशो विशेषः समय सामान्यं, अयं हि सामान्यत्राही जातिमेव पदार्थमाह-विशेषनाही च द्विकनिकादिकं, तथा च विचित्रप्रकार नैगमनयमाश्रित्यानुस्मथते । “एक द्वित्रिक पाथ चतुष्कं पञ्चकं तथा ॥ नामार्थ इति सभी पक्षाः शास्त्रे निरूपिताः ॥ १ ॥” इति, एकं जातिनामार्थः, लाधवेन तस्या एव वाच्यत्वौचित्यात्, अनेक०यक्तीनां वाच्यत्वे गौरवात् । न च व्यक्तीनामपि प्रत्येकमेकावाद्विनिगमनाविरह, एवं कस्यामेव व्यक्तौ शत्त्यभ्युपगमे व्यत्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्ग इति गौरवम् , जात्या तु सहाश्रयत्वमेव संसर्ग इति लाघवम् , किं चैवं गौः स्वरूपेण न गौरित्यादिन्यायाद्विशिष्टस्य वाच्यबहुवयणेण दुवयणमिति द्विवचनस्थाने बहुवचनमिति । अधिकमरमब्धसम्मतितकमहार्णपाऽवतारिका टीकातोऽवसेयम् । जातिरिति-तत्तत्पदार्थासाधारणो धर्म इत्यर्थः । तेनाभावत्वाकाशत्यादीनां नित्यानेकसमवेतत्वरूपजातित्वाऽभावेऽपि न क्षतिः । लायवेनेति व्यक्त्यनुगताया जातेरकत्वेन तताया२श तेरप्येकत्वसम्भवादिति भावः । ननु गामानय गां नय घटमानय घटं नयेत्यादिवृद्धपुरुषव्यवहारेण व्याव शक्तिमहात्कथं जाती शक्तिसिद्धिरित्यत आह-अनेकव्यसनामिति-पूर्व व्यवहारेण व्यक्ती शक्तिहेऽप्यानन्यात् तावतीषु शक्तिमहाऽसम्भवातदाश्रयभेदभिन्न नानाशक्ति कल्पने गौरवात् पश्चाजातावेव शक्तिनिवार्थत इत्यर्थः । ननु गोपद शक्यं गोत्वमिति पक्षेऽपि शक्यतावच्छेदक गोत्वत्व स्थात्, तच गतराऽसमवेतत्वे सति सकलगोव्यक्तिसमवेतत्वरूपमिति सखण्ड रूपत्वाद् गौरवं समानमेवेति चेत्, मैवम् , गौश्शक्येति पक्षे गोत्यादिजात्यंशे शक्यतावच्छेदकता यथा निरवच्छिन्ना तथाऽमन्मते गोत्ने शक्तिरपि निरवच्छिन्नेति न गोत्ववप्रवेशाद्गौरवामिति ॥ ननु गोत्यादिजातिवत् प्रत्येकगवादिव्यक्तिरप्येकवेति तत्र शक्तिकल्पनायां यथा सकलगोव्यक्ति भानार्थं तावद् गोव्यक्तिषु शक्तिकल्पनापक्षे गौरवज्ञानं बाधकं विनिगमकं तथैकल्यक्तिशक्तिपक्षे तन्न, जातिव्यक्त्योरेकत्वाविशेषादित्याशक्य निषेधति-न च व्यसनामपीतिनिषेधे गौरवज्ञानमेव पाधकं विनिगमकमाह एवं कस्यामेवेति । व्यत्यन्तरे लक्षणायामिति व्यक्त्यन्तरे लक्षणानभ्युपगमे तद्योधो न स्यादिति तदन्यथानुपपत्तिरेव तद्वीजमिति भावः । शक्यसम्बन्धो हि लक्षणा, सम्बन्धश्चात्र क इत्याशकायां तमाह स्वसमवेताश्रयत्वमिति-स्वं शक्यत्वेनाभिमतव्यक्तिविशेषः, तत्समवेता, जातिः, तदाश्रयत्वं तत्समवायित्वमित्यर्थः । आश्रयत्वमेव-शक्त स्वरूपेणाश्रयत्वमेव । यक्ष आश्रयत्वमित्यस्य स्वसमवायित्वमित्यर्थः । लाघवभिति-तथा चोक्तलाधवं जाती शक्त्यभ्युपगमे विनिगमकमिति न विनिगमनाविरह इति भावः । नन्वनुगतजात्यवच्छिन्नयावव्यक्ति५ शक्तिस्वीक्रियते सा चानुगतधर्मावच्छिन्नैकैव, अनुगतेककारणतावच्छेदकधर्मावछिन्नकारणतावदिति नानन्तशक्तिकल्पनादोषप्रसङ्ग इत्यत आह किश्चैवमिति । एवम्जातिविशिष्ट शक्त्यभ्युपगमे । गौः स्वरूपेण न गौरिति-गौरस्वरूपेण न गौना.