________________
: ३२० : तत्वार्थविवरणमूढार्थदीपिका : पंचत्रिशतमसू० टी० त्रयाणामिति विरुध्येत । व्यक्तिपक्षे आनन्त्याज्जातिपक्षे च जातियवस्वेकजातिशब्दासमावेशात्, न हिं घटपटतात्रयो घटा इति केनापि वक्तुं शक्यम् । तस्माच्छन्दस्य ये भेदा अभिहितास्ते नयभेदा एव, नयत्वसाक्षाद्व्याप्यजात्यवच्छिन्नत्वात् । नैगमस्य च यो भेदावभिहितौ तौ नयप्रभेदौ, नयत्वव्याप्यजाति. व्याप्यजात्यवच्छिन्नत्यादिति स्मर्तव्यम् । अत एवासंकीर्णजातिपुरस्कारेण नयप्रमाणे सप्तैव नया अनुयोगबारेऽप्युक्ताः । तथा च तत्सूत्रं - "से किं तं नयप्पमाणे ? नय पमाणे सत्तविहे पण्णत्ते । तंजहा-णेगमे, संगहे, पवहारे, उज्जुसुए, सदे, सममिढे, एवंभूपति सव मूलगया पण्णता " इत्यादि । स्थानाङ्गेऽपीस्थमेवोक्तम् । न च परिमर्षप्रसिद्धं विभागक्रममुलक्यान्यथा विभजन्ते आनायविद इति । शब्द त्रिभेदमाचक्षाणाना वाचकचक्रवर्तिनामपि सप्तधा नयविभाग एव घेतःवरसः, पञ्चेत्युक्ति परिभाषाप्रयुक्ताऽऽदेशान्तरेणेति सुदृढमवधेयम् । एतेन नव नया द्रव्यार्थिकः पर्यायार्थिको नैगमः संग्रहश्चेत्यादि विभागो जैनाभासस्थ दिक्पटदेशीयस्य देवसेनस्य निरस्तो द्रष्टव्यः, भेदप्रभेदानां सहोक्तौ विभागवाक्यज्याघातात्, न हि भवति मूर्तामूर्तपृथिव्यप्तेजोवाय्याकाशकालदिगात्ममनास्येकादश द्रव्याणीति विभजतो वैशेषिकबालस्य चतुर्दशभूनग्रामे त्रसेतरभेदद्वयं प्रक्षिप्य षोडशधा विभजतो वाऽऽहतवालस्य नोपहास व्यक्तिपक्षे त्रमाणामिति प्रयोगाऽनुपपत्ती हेतुमाह-परित पक्षे आनन्त्यादिति । जातिवयवत्स्येकजातिशब्दाऽसमावेशादिति-साम्प्रतत्वसममिरूढत्वैवम्भूतत्वजातित्र याधारेषु नयत्र येषु शब्दत्वरूपैकजात्यवाच्छिन्नवाचकशब्दनयप्रयोगासम्भवादित्यर्थः जातित्रयाधारेषेकजात्यवच्छिन्नवाचकशब्दव्यवहाराभावे दृष्टान्तमाह-न हीति। नयत्वव्याप्यजातिव्याप्यजात्यवच्छिन्नत्वादिति-नयत्वव्याप्यजाति गमत्वं तद्वयाप्यजाती देशपरिक्षेपित्वसर्वपरिक्षेपित्वे तद्विशिष्टत्वादित्यर्थः । नयममाग इति-नयप्रमाणद्वार इत्यर्थः । स्थानालेऽपीत्वमेवोक्तमिति-सत्त मूलनया पन्नता, तं जहा नेगमे संगहे पबहारे उज्जु, सुत्ते सदे समभिरूडे एवंभूते । सू. ५५२ इति । शब्दनयभेदानां सा-प्रतादिनयत्रयाणां नवविभाजकोपाधिव्याप्यविभाजकोपाविमत्वाभावान शब्दावान्तर भेदत्वं किन्तु नय विभाजकतावच्छेदकमूलजातिरूपेण सप्तनथानामनुयोगद्वारठाणाङ्गसूत्रादिष्येक एव विभागः प्रतिपादितः, न तु विभक्तविभाग इति मूलभेदत्वमेवेति वस्तुगत्या नयानां सतविधत्वमेवेति सूत्रकार स्वारस्यमाहशब्दं त्रिनेदनाचक्षाणानामित्यादि । नये तर्हि चतुर्विंशत्तमसूत्रभाष्ये पञ्चनया इति करमुक्तमित्याशङ्कानिवृत्त्यर्थमाह पञ्चेत्युतिस्त्वित्यादि । साम्प्रतादिनयत्रयाणां शब्दप्राधान्येनार्थोषसर्जनतया प्रतीतिजनकत्वेन रूपेणकरवातत्र शब्दनयेतिसकेतशालिनी या परिभाषा तत्प्रयुक्ताऽऽदेशान्तरेणेत्यर्थः । नानाटदेशीयदेवसेनदृधलधुनयचक्रे-"दो चेव मूलिभणया भणिया दव्यत्यपञ्जयत्यया(गया)। नैगम संगह ववहार तह य रिउसुत्त सद्द अभिरूढा। एवंभूयो पचविह णावि तह उरणया तिणि ॥१॥" इत्युक्तस्य तकृतालापपद्धतौ च द्रव्यार्थिक पर्यायार्थिका नैगमः संग्रहः व्यवहार गजुसूत्रः शब्दः समाभिरून ५३ भूत इति नवनया इत्युतस्य निरसनायाह-एनेनेति । अस्य निरसो द्रव्य इत्यनेनान्वयः । निरासे हेतुमाह-द. .