________________
स्वार्थविपरणार्थदीपिका । पंचरितमसू. टी० : ३१७ तत्प्रामाण्यात् , उत्क्रमे बाधत्वं न स्यादपीति । स-आधो नैगमो द्विमेद:-द्वौ भेदी यस्य स तथा । तावे. पाह-देशपरिक्षेपी सर्वपरिक्षेपी च । देशं विशेष परमावादिगत परिक्षेप्तुं शीलं यस्य स तथा, सामान्यवाहीति यावत् । सर्व सामान्य परिक्षेप्तुं शीलं यस्य स तथा, विशेषमाहीति यावत् । सामान्यविशे५५स्तु नोक्तम् ( नोक्तः, ) अनुवृत्तिलक्षणं सामान्यमेव, व्यावृत्तिलक्षणो विशेष एवेति भिन्नविषयाभावात् । अयं च काणभुजराद्धान्तप्रवर्तकः टीकायामभिहितः, तन्मते च यद्यपि न सामान्यमानं विशेषमात्रं वा वस्तु, द्रव्यगुणक्रियाश्रितस्य सामान्यस्य नित्यद्रयाश्रितस्य चान्त्यविशेषस्याभ्युपगमात् , तथापि तन्मूलमिदं प्रथमाभ्युपगममाश्रित्येत्यमुक्तमिति भावनीयम् । शन्दनयास्त्रिभेदा इति ( शब्दस्त्रिभेद इति) शब्दनयस्व्यंश इत्यर्थः । तानेव भेदानाह साम्प्रत इत्यादिना । संप्रति काले भवं यद्वस्तु तदाश्रयन्
ननु सामान्याद्विशेषाच्यातिरिक्त सामान्यविशेषोभयरूपः कथं नोक्त इत्याशङ्कायां तत्र हेतुमाह-अनुवृत्तिलक्षणमित्यादि । द्रव्यादिषु सत्सदिति द्रव्यमिदं द्रव्यमिदं गुणोऽयं गुणोऽयमित्याधनुगतप्रत्ययजनकं यत्सत्ताद्रव्यत्वगुणत्वादिकं तत्सामान्यमेव, परमाणोः परमानन्तरण यो ०यावृत्तप्रत्ययस्तजनकोऽन्त्यविशे५ एवेति तदतिरिक्तविषयाभावादित्यर्थः । यद्यपि द्रव्यभिदं द्रव्यमिदमित्याधनुगतप्रत्ययजनकत्वे सति नायं गुणः नेदं कर्मेति विशेषप्रत्ययजनकत्वाद् द्रव्यत्वादीनां सामान्यत्वं विशेषत्वं चाभ्युपगत वैशेषिकदर्शनानुगैरिति सामान्य विशेषोभयात्मकं द्रव्यत्वादिकमस्येव, अत एव-" द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाश्च" १-५ इति वैशेषिकसत्रे सामान्यानि विशेषाश्चेत्यत्रासमास: सामान्यत्वे सति विशेषत्वं यथा ज्ञायते तदर्थम् , अन्यथा सामान्यविशंपा इत्युक्तो पठीसमासभ्रमररयात्, तथा च सामान्यत्वे सति विशेषत्वं न प्रतीयेत तथापि यदेव द्रव्यत्वादिकं सामान्यरूपं तदेवापेक्षिकविशेषरूपमिति तदतिरिक्तस्य सामान्यविशेपोभयात्मविषयस्याभावादिति भावः । अयं चेति-नैगमनयश्च वैशेषिकदर्शनप्रवकतातपादश्रीसिद्धसेनमाणिवरकृततत्वार्थटीकायाभाभिहितः । तन्मते चेत्यादि-वैशेषिकमते च यद्यपि सामान्यमानं विशेषमात्रं वा वस्तु न सम्मन, द्रव्यगुणक्रियाश्रितस्य सामान्यस्य नित्यद्रव्याश्रितस्यान्त्यविशेषस्य वैशेषिकेणाभ्युपगमात् , यदि सामान्यमेव वस्तु तन्मते भवेत् तर्हि द्रव्यादिव्यक्तिलक्षणविशेषाभावात्तदाश्रिततथा सामान्यस्याभ्युपगमस्तन्मते कथं सङ्गच्छेत, एवं यदि विशेषमात्रं पस्तु तन्मते भवेत्तर्हि नित्यद्रव्यस्यैव तन्मतेऽभावप्राप्तौ तदाश्रिततयाऽन्त्यविशेषाम्युपगमोऽप्यसमञ्जस एवं स्यात् , एवञ्च देशपरिक्षेपी सामान्यमानाही सर्वपरिक्षेपी विशेषमात्रग्राही यो नैगमो नय.
लकत्वञ्च सामान्यविशेषोभयाभ्युपगमप्रयणे वैशेषिकदर्शने न सम्भवति, तथापि-उक्तदिशा सामान्य मात्राम्युपगमप्रवणविशेषमात्राम्युपगमप्रवण गमाविशेषद्वयमूलकत्वास भवेऽपि, सामा. न्यतो नैगमः सामान्यमभ्युपगच्छति विशेपश्चाभ्युपगच्छतीति देशसमग्रग्राही नैगम इति प्रथमा. भ्युपगममाश्रित्येदं नेगमवचनं नैगममननं पावैशेषिकदर्शनमूलमित्यभिप्रायेणेत्थमुक्त टीकाकतेति सुधीभिर्विचारणीयमित्यर्थः । सम्प्रतिशदाद् "कालान्" इत्यनेन प्रत्यये तत्र ञ् इत्यस्यले