________________
- વાઈવિવાળવાર્યતીથિ - થારામ દવે णात्मकर्ममेक्षिकाऽभावान जीवाजीवादिवरतुनो यथार्थपरिभावनं स्यादिति यथार्थज्ञानाभावे नायुक्तमपि युक्त युक्तमप्ययुक्त प्रतिमासेत । किञ्च परसमयरूपं यदनित्यत्यादिधर्मप्रतिपादकमेकनयमतं तन्नित्यत्वादिधर्मप्रतिपादकेन तत्प्रतिपक्षभूतेनान्येन नयेन नयविधिज्ञो यदि स्यापदा निराकुर्यात् । किञ्च स्वसिद्धान्तऽपि यदज्ञानद्वेषादिकलुपितस्सन् कोऽपि दोपबुद्ध्या किमपि यज्जीवादिवस्तु अन्यथा परिगृह्णीयात् तदपि यो नयविधिज्ञस्स ५५ नयोक्तिभिर्यथार्थतया स्थापयेत्, अन्यथा तु कथं, तस्मात्कर्तव्यो नयविचारः । उक्तञ्च भाष्ये "परसमएगनयमयं तप्पडिसनयओ निवत्तजा । समए व परिग्गहियं परेण जं दोसबुद्धीए ॥ २२७४ ॥” इति । नन्वेवं तर्हि सर्वत्र नयानामेव सावकाशत्वात् प्रमाणानि निष्प्रयोजनानि स्थुः, एवं निक्षेपा अपीति चेत्, उच्यते, श्रुतात्यप्रमाणविषयी कृतस्य वस्तुनो य एकोऽशः यौ वा द्वाशौ ये वा प्रतिनियतवशास्तदितरांशौदासीन्येन तत्प्रतिपादनमात्रमेव नयफलम् , सशिविशिष्टवस्तुप्रतिपादनं प्रमाणफलम् , नामादिवस्तुभेदप्रतिपादन निक्षेपफलमिति त्रयाणामपि जैनशासने साफल्यमेव, नयप्रमाणनिक्षेपसामान्यलक्षणत प्रतिभेदस्वरूपलक्षणयथार्थज्ञान एव वस्तुनो यथार्थज्ञानं तत्त्वजिज्ञासुमध्यस्थश्रोतजनावबोधनाय यथार्थवाक्प्रयोगश्च स्यात्, नान्यथा । उक्तञ्च विशेषावश्यकभाष्ये"अत्थंजोन समिक्खइ निक्खेव-नयप्पमाणओ विहिणा। तस्साजुत्तं जुत्तं जुत्तमजुत्तं व पडिहाइ २२७३।" इत्यादि लक्षणा नया मिथस्सापेक्षारसुनयाः, स्वाभ्युपगतकवतरधर्मतिरस्करणे सति मिथो निरपेक्षा मिथ्यानया:, ते चापरिमिताः, यतस्ते तपादिभिनिजाभिप्रायेण प्रदर्शिवास्सदेवासदेव वा वस्तु नित्यमेवानित्यमेव वा भिन्नमेवाऽभिन्नमेव वा क्षणिकमेवाक्षणिकमेव बत्यधिककांशप्रतिपादका वचनप्रकारा यावन्तस्तावन्त ५५, वचनपथतुल्यस-ख्यपरसमयतुल्यत्वानयानाम् । उक्तञ्च सन्मता-"जावइआ क्यणप्पहा तावइआ चेव होति नयवाया। जावइआ नयवाया तावइया चेव परसमया ॥१॥” इति । ते च नया: परस्परनिरपेक्षा अत एव स्यावाकवाक्यताऽनापन्नास्सावधारणाः स्वपक्षप्रतिहतत्वान्मिथ्यारूपास्वविपयस्य स्वविषयामिधानस्य च मिथ्यात्वस्यापकाः परसमयरूपा अपि विरुद्धयोसंचासत्वाधारविरोधभावनियामकं सापेक्षभावं गतास्ते निरवधारणार त्याच्छन्दलाञ्छितासमुदिता सत्तोऽन्योन्यनयविषयापरित्यागवृत्तय इतरनयविषयसापेक्षतविषयसत्यत्वनिश्चायका स्वसमयरूपा इति ते प्रमाणभावलक्षणसम्यक्त्वं प्रतिपद्यन्ते । उक्तञ्च विशेषावश्यकभाष्ये"ते चेव य परसमया समत्तं समुदिता सव्वे । २२६५ ।" इति । ननु नयानां प्रत्येका
स्थायां मिथ्यादृष्टित्वात्समुदायेऽपि प्रचुर विपलवसमुदाये विपप्राचुर्यवत् महामिथ्यावृष्टिल्य{प्रसक्त्या न ते समुदिता सम्पत्विं प्रतिपद्यन्ते, नापि परस्पर विवदमाना वस्तुगमका भवन्ति, प्रत्युत मिथो विरोधित्वावस्तुविधावायवे भवन्तीति चेत्, मवम् , परतवानवपोधात्, यतः मधुर विषलवा अपि प्रौढमानवादिनाऽतिप्राज्ञकुशलक्रियपीयूपपाणिमहाधन