________________
तपार्थविवरणपूढार्थदीविका । एकत्रिंशत्तमसू० टी० : २२६ ! नैव तत्तत्राणि याथार्थेन ज्ञायन्ते इत्यत्र स्वस्वगुरुसम्प्रदायाऽविच्छिन्नतत्तनयगर्भवाचनाप्रवाहाऽऽयातास्त्रयोऽपि रिपक्षाः प्रमाणकोटिप्रविष्टाः । अत एव "प्रावचनिकानां जिनभद्रसिद्धसेनप्रभृतीनां स्वस्थतात्पर्यविरुद्धविषये सूत्रे परतीर्थिकपदं मिनपरम्पराऽऽयाततात्पर्यानुसारिपरमिति न केषामपि प्रावचनिकत्यक्षतिः, तत्तन्नयामिप्रायेण प्रवृत्तत्वात्" इति नयोपदेशवृत्तौ व्याख्यातमिति तेषां सूरीणां केषामपि नापसिद्धान्तोक्त्या मिथ्यात्वासः, तथाहि-यत्सतत्क्षणिकमिति सामान्यव्याप्त्या निखिलवस्तुनस्सदूपत्वेन क्षणिकत्वमिति पूर्वपूर्वक्षणिकवस्तुनस्वोत्तरोत्तरक्षणिककार्थकुर्वद्र पात्मकतथा कारणत्वेन पूर्वपूर्वक्षणिकनोत्तरोत्तरक्षणिक कार्य जायते इति पूर्वोत्तरक्षणवतिक्षणिकवस्तुद्वयकार्यकारणभावाऽभ्युपगन्तुवाद्धमतप्रकृत्यजुसूत्रनयापेक्षया केवलज्ञानकेवलदर्शनसूत्राभिप्राय व्यवस्थापयन्तः पूर्वोत्तरक्षणवर्तिनोजुसूत्राभ्युपगतकार्यकारणभावांश एवं प्रस्तुत उपयुक्तः, न जुसूत्राऽभ्युपगतनिखिलतवभाग इति तत्रौदासीन्यमुक्त कार्यकारणभावे च प्राधान्यमभिसन्दवानाः केवलज्ञान केवलदर्शनक्रमिकोत्पादं पूज्या*श्रीजिनमद्रमणिक्षमाश्रमणाः प्रतिपादयन्ति ।
यद्यपि चेतनालक्षणसामान्यात्मना केवलोपयोगलक्षणसामान्यात्मना वा केवलज्ञानकेवलदर्शनयोरैक्यमेव तथापि सामान्यविशेपभेदग्राहितया तदुभयभेद ग्राहकवैशेषिकनैयाविकमतप्रकृतिव्यवहारनयापेक्षया केवलज्ञान केवलदर्शनसूत्राभिप्रायमुररीकुर्वन्तो व्यवहारनयाभ्युपगतभेदान्यतवभागे औदासीन्येन तदस्युपगतभेदमात्रस्य प्रस्तुतोपयुक्तत्वात्तं प्रधानीकृत्य एकसमयावच्छिन्नोत्पत्तिककेवलज्ञान केवलदर्शनभेदं जगदर्यक्रमाजश्रीमल्लवादिन ऊचुः । ___" सदेव सौम्येदमय आसीत् , एकमेवाद्वितीयम् , नेह नानास्ति किञ्चन " इत्यादिश्रुत्या घट सन् पटरान्नित्यानुगतप्रत्ययगोचरीभूतेन सत्त्वेन रूपेणेकस्यैव सर्वजगतो घटत्वपटत्वाधुपाधिभैदैन यः काल्पनिकभेदो यद्वाऽखण्डसचिदानन्दात्मकस्थैकस्यैव ब्रह्मणो मायावच्छिन्नत्वाकरणावच्छिन्नत्योपाधिभेदेन यः काल्पनिकभेदस्तग्राहियेदान्तिमतप्रकृतिसहनयापेक्षया केवलज्ञानकेवलदर्शनसूत्रामिप्रायमभ्युपगच्छन्तो प्रवचनोपनिषद्वेदिमहातपादिभगवच्छीसिद्धसेन दिवाकरा न तु व्यक्त्या भेदं, केवलज्ञानव्यक्तरेकत्वात् , किन्तु ज्ञानवदर्शनवधर्मोपाधिभेदेनैकसापि केवलज्ञानस्य भेदं कथयामासुः ।
तथा चाविच्छिन्नप्रावनिकपरम्पराऽऽयाततत्तनयगर्भसूत्रतात्पर्य वायुपगतार्थानुकूलत्वेन प्रतिसन्याय प्रतिपन्नवतां त्रयाणामपि भूरिभगवता मध्ये नकोऽपि स्वाभ्युपगतेऽर्थे भगवत्प्रणतिशास्त्रतात्पर्यवाधं प्रतिसन्धायव पक्षपातेन तमर्थं श्रद्धत्ते इति तत्र शास्त्रतात्पर्यवाधप्रतिसन्धानाभाववति “ विदुपोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रकारितार्थश्रद्धानमाभिनिवेशिकम् ," इति लक्षणासङ्गत कस्मिन्नपि रिवर आभिनिवेशिकमिथ्यात्वप्रसङ्गः ।
उक्तं च न्यायाचार्यश्रीयशोविजयोपाध्यायैनि विन्दौ :: प्राचां वाचां विमुख मेक्षिकाया