________________
तत्त्वार्थविवरण गूढार्थदीविका | एकत्रिशतमसू० टी०
यकृतमित्यत्र 'जं कथं' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतथान्त. पदवाच्यैराकारादिभिः थैरसमकं यत्समकमिति लुप्ततृतीयान्तसमासस्थयत्पदार्थस्य समक पदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्याद नन्वय इति 'यत्समकम् । इत्यादि क्रियाविशेषणत्वेन व्याख्येयम् , रत्नप्रभाकर्मकाकारादिनिरूपित यावंदन्यूनानातिरिक्तविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निवेध्यस्याऽप्रसिद्धर्न तन्निषेधः, 'असतो नत्थि निसहो' विशेपा० भा० १५७४ इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा 'क्रियाप्रधानमाख्यातम्' इति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं न तादृशं फेवालि फत के दर्शनमित्येव बोधः, सर्वनयात्मके भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोपाभावादिति । अन न तादशं केवलिकत कं दर्शनमित्यस्य रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकत्वाभाववत् केवलिकत्तक दर्शनमिति पर्यवसितोऽर्थः । तेन ज्ञानतुल्यविषयताकदर्शनसाऽप्रसिद्धत्वेऽपि न क्षतिरिति । ननु केवलज्ञानवलदर्शने समकालीन केवलज्ञानापरणक्षयकेवलदर्शनावर णक्षयहेतु केऽपि क्रमभावित्वस्वभाबादेव क्रमेणवोत्पते । न हि स्वभाव पर्यनुयोग इति न्यायादिति पूर्वोक्त कि विस्मृतमिति चेत्, उच्यते, नै। विनम् , कि युक्तिवलसाम्राज्ये सति न हि स्वभावमात्रेण सन्तोष्टव्यम्, यतो युगपत्कार्ययोत्पादकाऽ. तुलसमवलकारणद्वयसभावेऽपि स्वभावमात्रेण कार्यक्रमाभ्युपगमे सर्वत्र स्वभावेनैव निर्वाह बारमात्रस्योच्छेदप्रसङ्ग स्यात् , तथा सति स्वभाववादस्यैव साम्राज्यं सात, तस्मादनन्यगत्या कार्योत्पत्तिस्वभावः कारणेनेव कार्यक्रमस्वभावोऽपि कारणक्रमेणैव जननीय इत्यभ्युपगन्तव्यम्, न चात्र कारणक्रमः, येनाभिलषितकार्यक्रमोऽपि स्यात् । एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवछिन्नोपयोग पासिद्धिरित्यपि निरस्तम् , तत्सिद्धावपि तत्क्रमाऽसिद्धः, आवरणयक्षयकार्ययोः समप्राधान्यनार्थगतरप्रसराच । न च मतिश्रुतज्ञानावरणयोर्युगपत्क्षयोपशमेऽपि यथा તદુપયો મસ્તથા વઢજ્ઞાનવર શેનાવળિયોપલ્ફગેપ વનિત્યુપાત્રમાહિતિ शङ्कनीयम्, तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शाब्दादौ प्रत्यक्षादिसामयाः प्रतिबन्धकत्येन चोपयोगक्रमसम्भवात् , अत्र तु क्षीणावरणत्वेन परस्पर कार्यकारणभावप्रतिवध्यप्रतिवन्धकमावायभावेन विशेषात् । तदेवं यथा क्षीणावरणे जिने मत्यादिज्ञानचतुष्टयमवग्रहादिरूपं वा मतिज्ञानं न सम्भवति तथा केवलज्ञानोत्पत्तिसमयभिन्नसमयोत्पत्तिकदर्शनमपि न सम्भवति, क्रमोपयोगत्वस्य मतिज्ञानाद्यात्मकछामस्थिकज्ञानत्वव्याप्यत्वात सामान्यालबनविशेषाऽऽलम्बनक्रमोपयोगत्वस्य चावग्रहाधात्मकत्वव्याप्यत्वात् , केवलज्ञानकेवलदर्शनयोः क्रमोपयोगत्वे तत्वापत्तिः, व्याप्यसचे व्यापकस्यावश्यम्भावादिति केवलज्ञानावरणकेवलदर्शनावरणक्षययोथुगमाविलेन तत्कार्ययोः सर्वव्यक्ति सर्वजातिविषयकयोः फेवलज्ञान केवलदर्शनयोरयुगपदुत्प