________________
२८८ : तत्वार्थविवरणगूढार्थदीपिका 1 एकत्रिशतमनु० टी० दिगुणान्वितस्य, केवलिनो युगपदेकस्मिन्समये, सर्वभावग्राहके निरपेक्षे इन्द्रियाद्यनपेक्षे च, केवलज्ञाने केवलदर्शने च युगपदेकस्मिन् समयेऽनुसमयमनुगतोऽव्यवहितः समयो यत्र कालसन्ताने तं , च्याप्य, उपयोगो भवति, कालाध्वनोरत्यन्तसंयोग " इति द्वितीया, वारंवारेण केवलज्ञानदर्शनयोरुपयोगः सर्वकालं भवतीति यावत् , तथा च सामयिककेवलज्ञानदर्शनोपयोगप्रवाहे दुरापास्तव शानान्तरोपयोगसंकथा । अत्र केचित्पण्डितम्मन्यास्त रसिका वारंवारणोपयोगो नास्तीत्याहुः । तन्न प्रमाणयन्ति सम्प्रदायवृद्धाः । आम्नाये भूयसां सूत्राणां 'सवस्स केवलिस्सा जुगवं दो पत्थि उवओगा' इत्यादीनां वारंवारणोपयोगप्रतिपादकानामुपलभात्, न च तेषां सूत्राणामन्य एवार्थो विधेयः, सर्वेषा सूत्रणासन्धस्थानीयानामाप्तसम्प्रदायोपहितसन्यबुद्धया गृहीतानामवार्थव्यापार शक्तत्वात् , केवलिनोऽपरिमितार्थगोचर केवलज्ञानशालित्वादित्यर्थः । युगपदित्यस्यार्थमाह ' एकस्मिन् समय इति । अनुसमयमित्यस्यार्थमाह अनुगतोऽयवहितः समयो यत्र कालसन्ताने तं व्याप्येति । “कालाध्वनोरत्यन्तसंयोगे" इति द्वितीयेति पाणिनी-- योक्तसूत्रेण २-३-५ अनुसमयभित्यत्र द्वितीया सप्तमीवाधिकेत्यर्थः । वारंवारे केवलज्ञानकेवलदर्शनयोरुपयोगः सर्वकालं भवतीति-केवलज्ञानं किं प्रथमसमये भवति किं वा... केवलदर्शनमित्यत्र " सवाओ लद्धीओ सागारोवओगोवउत्तरस" इत्याधापचनस्य विनि'गमकत्वात् केवलज्ञानस्थापि लब्धित्वात् साकारोपयोगकाले तस्य - भावादाघे समये तत्, न च तदेव केवलदर्शनोत्पत्तिः, " जुगवं दो नत्थि उपओगा” इति सिद्धान्तवचनात् , किन्तु द्वितीयसमये, केवलदर्शनोपयोगस्य क्रमभावित्वेनार्थसिद्धत्वात्तदानीम् , तदनु क्रमिकोपयोगद्यधारायास्वरसत ५५ प्रवृत्तेस्तुतीयसमये केवलज्ञानोपयोगः, चतुर्थे च केवलदर्शनोपयोगः, एकमग्रेऽपीत्येवं सर्वकालं प्रतिसमयं क्रमेणैक एव केवलज्ञानकेवलदर्शनान्यतरोपयोग इत्यर्थः । ज्ञानान्तरोपयोगसंकथेति-क्रमिकमत्यादिज्ञानोपयोगचर्चेत्यर्थः। यद्यपि केवलज्ञानं केवल दर्शनं चोभयं धातिकर्मक्षयसहकृतात्ममात्रापेक्षकत्वादे कसामयुत्पाद्यामिति क्रमोत्पादहेतुक्रमिकसामध्यभावात् प्रतिवन्धकान्तराभापाच ते उभे युगपदेवोत्पद्यताम् तथापि-" सनाओ लद्धीओ सागारोवोगावउत्तस्स" इत्याधार्षवचनस्य विनिगमकत्वात् आधसमये केवलज्ञानोपयोगोत्पत्तिः, द्वितीयसमय एव च केवलदर्शनोपयोगोत्पत्तिः, तत्र च हेतुः प्रागेवोक्तः "जुग दोनत्थि उपओगा" इति । अथ छमस्थज्ञानदर्शनोपयोगापेक्षया तद्वचनमिति चेत्, मैवम् , विशेषानभिधानात्, छमस्थोपयोगविषयत्वेनोक्तवचनस्य सङ्कोचकरणे बीजाभावात् , द्वितीयसमयादन्यपि पूर्वोत्तरीत्या प्रतिसमयं सर्वकालं क्रमिक एव. केवलज्ञानकेवलदर्शनान्यतरोपयोग इत्येवं सिद्धान्तावलम्विश्रीजिनभद्रगणिक्षमाश्रमणमतम् । तर्कनिष्णाता युक्तिबलावलम्बिनः पूज्यपादाश्रीसिद्धसेनदिवाकर। मल्लवादिनच तन्नानुमन्यन्त इत्याह अत्र केचित्पण्डितमन्यास्तकरसिका वारंवारणोपयोगोनाल्लिाहुरिति। सव्वस्स केवलिस्सा(स्स) जुग दो नत्थि उवओगा इति । अत्र "नाणमिदंसम्मि य, एत्तो एगयर शिव उवउत्तो"