________________
: २७८ : तवार्थविपरमार्थदीपिका । शिसमसू० टी० असाधारण सजातीयद्वितीयरहितम् । निरपेक्षम्-आलोकेन्द्रियावग्रहप्रणिधानाधपेक्षारहितम् । विशुद्ध निःशेषावरणमलरहितम् , सर्वेषां भावानां ज्ञापक प्ररूपकं, तादृशशब्दसमूहरूपप्रवचनमूलकारणमित्यर्थः। . लोकालोकविषयं क्षेत्रत्वव्यापकविषयताकम् । अनन्तपर्याय शेयानन्त्यात् । पद्विपयताकमेव केवलज्ञानम् , अर्थात् तादृशपर्याप्त्यनाधारविषयता केवलज्ञाने वर्तते इति नोक्तदोषः । असाधारणमित्यस्यार्थमाह-सजातीयद्वितीयरहितमिति साजात्यं चात्र ज्ञानवेन, तथा च ज्ञानत्वेन रूपेण केवलज्ञानसजातीयं मतिज्ञानादिकं तद्रहितमेककालावच्छिन्नतत्समानाधिकरण नेत्यर्थः । केवलज्ञानमात्ममानसापेक्षत्वान्नास्मदादिप्रत्यक्षपद् बाबालोकेन्द्रियाँर्थसम्बन्धादिसामध्यपेक्षं, न वा युक्तयोगिज्ञानवत् प्रणिधानाधान्तरसामग्र्यपेक्षमित्यभिप्रायेण निरपेक्षमित्यस्यार्थमाह आलोकेन्द्रियावनप्रणिधानाधपेक्षारहितमिति, यथा भा. स्करस्य जगत्प्रकाशस्वभावोऽतिसमुन्नतधनाधनघनपटलाडम्बरेणानाभिव्यक्तो यः स प्रतिकूलवावादिनासर्वथोक्ताडम्बरविगमे सति तेन सर्वकलांशैरभिव्यक्तस्वरूपतयोत्पधमानो नान्यसामग्रामपेक्षते तथात्मनो जगत्प्रकाशिकेवलज्ञानसभावोऽतिनिविडितमज्ञानावरणकर्मावरणेनावृत२शुक्लध्यानादिना निश्शेवातावरणविध्वंसे सति सर्वथा विरावतस्वरूपतयोत्पद्यमानो नान्यसामग्रीमपेक्षते किन्त्यात्ममात्रमेवेत्युक्तबाह्याभ्यन्तरसामयनयेक्षं केवलज्ञानमिति भावः । अत एवातिनिर्मलतमित्याह विशुद्धमिति । तदर्थमाह निश्शेषावरणमलरहितमिति । सर्वेषां भावानां ज्ञा५ प्ररूपकमिति-यधपि मत्यवधिमनःपर्यायज्ञानानामिव केवल ज्ञानस्यापि पराऽप्रत्यायकत्वलक्षणमूकत्यान तत्सर्वेषां भावानां ज्ञापकं प्ररूप तथाप्युत्पन्न वलज्ञानो भगवान् भाषापर्याप्त्याहितवाग्योगजन्यभाषया श्रोतृणां भावश्रुतकारणतया द्रव्य श्रुतत्वमास्कन्दन्त्या भविकमनविवोधनार्य प्रज्ञापनीयान् भावान् ग्रहीतुर्ग्रहणयोग्यान भाषते तत्के-- वलज्ञानं द्रव्यश्रुतद्वारा सर्वेभावानां ज्ञापकं प्ररूपकमित्यर्थः । मुख्यवृत्या प्रमुभगवत्केवलज्ञानमेव गगधरभगवद्रचितद्वादशाङ्गीरूपप्रवचनमूलकारणम् , केवलज्ञानिभगवत्प्रतिपादितत्रिपदीसमालम्पनेन श्रीगणधरभगवता द्वादशाङ्गयात्मकप्रवचनप्रणयनादित्याशयेनाह-तादृशशब्दसमूह पप्रवचनमूलकारणमित्यर्थः । लोकालोकविषयमिति-अस्थार्थमाह-क्षेत्र. त्वव्यापकविषयताकमिति । अनन्तपर्यायमिति-अत्र हेतुमाह शेयानन्त्यादिति । यद्यपि केवलज्ञानं स्वरूपत एकमे। तथापि निखिलरूप्यरूपिविषयानन्त्येन तदवाहितयान
तपर्यायमित्यर्थः । अयम्भावः-यमेकं विषयं येन स्वभावनावाहते केवलज्ञानं न तेनैव स्वभावेन विषयान्तरं किन्तु भिन्नेनैवेति विषयाणामानन्त्येनाशिलतत्तद्विपयावगाहनस्वभावा अपि पर्याया अनन्ता एव तस्मिनित्येकस्मिन्समयेऽप्यनन्तपर्याय, समयान्तरेऽपि निखिलपदा
नामुत्पादादित्रयात्मकत्वान्यथानुपपत्त्या कथञ्चित्परावर्तनस्वभावानामत एव प्रतिसमर्थ भिनानां प्रत्येकं भिन्नभिन्नस्वभावतयावगाहित्वेनानन्तपर्यायं तदिति । नन्वतीतकाले निखिलपदार्या थेन येन रूपेण परिणताः, वर्तमानकाले च सर्वे पदार्थी येन थेन रूपेण