________________
तत्वार्थविदार्यदीपिका । विशतिसू० टी०
: २५५ : क्षयोपशभेन प्रतिनियमात् । ओघश्रुतं जात्यन्तरमेव, तदतिरिक्तस्य च यथोक्तं लक्षणमव्याहतमिति रहस्यम् । हेतुफलमावा भेदो यथा गतिपूर्व श्रुतमुक्तम्, तत्रानुप्रेक्षादिकालेऽभ्यूह्याभ्यूब श्रुतपर्यायवर्धनेन भत्यैव श्रुतज्ञानं पूर्यते पुष्टिं नीयत इत्यर्थः । तथा मत्यवान्यतस्तत् प्राप्यते, मत्यैवान्यस्मै दीयते, तथा गृहीतं सचिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, अन्यथा गृहीतमपि नश्यदिति श्रुतपूरणादिकरणामतिः कारणं श्रुतं कार्यमित्यतस्तयोर्भेदः, अभेदे पटतत्स्वरूपयोरिव कार्यकारणभावानुपपत्तेः । न च मतिश्रुतयोः समकालत्वनिर्देशादेतदनुपपत्तिः क्षयोपशमसाबाद् द्रव्यश्रुताऽभावेऽपि भावश्रुतं तत्रावश्यं खीकर्तव्यमिति । नन्वेवं तकन्द्रियेवव्यक्तमतिज्ञानश्रुतज्ञानवदन्यतावधिज्ञानादिप्रसङ्गः, विनिगमनाविरहादित्याशङ्कय निषेधतिन चेति । निषेधे हेतुमाह क्षयोपशमेन प्रतिनियमादिति । अयम्भावः यज्ञानापरणीयकर्मणः क्षयोपशमः क्षयो वा तदेव ज्ञानमभ्युपगन्तव्यम्, स्तश्चैकेन्द्रियाणां मतिश्रुतज्ञानावरणीयकर्मक्षयोपशमो, तत्कार्यदर्शनादिति तदुभयं तत्रास्ति, न सति चावधिज्ञानमनापर्यवज्ञानावरणीयकर्मक्षयोपशमो केवलज्ञानावरणकर्मक्षयश्च तकार्याsदर्शनादिति नावध्यादिज्ञानत्रयप्रसङ्गः, कारणाभावात्कार्याभाव इति न्यायादिति । न च श्रुतानुसारि यज्शानं तच्छ्तज्ञानमिति श्रुतज्ञानलक्षणस्यकेन्द्रियोधश्रुते श्रुताननुसारित्वेन सङ्गमनाभावात्तत्र तस्याव्याप्तिरिति वाच्यम् , व्यक्तश्रुतज्ञानस्यैव लक्षणकरणात्, एकेन्द्रियोघश्रुतज्ञान वयक्तमिति जात्यन्तररूपत्वेनालक्ष्यत्वानोक्ताव्याप्तिरित्याशयेनाह-ओघश्रुतं जायन्तरमेवेति योक्तलक्षणस्य श्रुतानुसारिज्ञानवृत्तिज्ञानत्वव्यायजातिमनार्थकत्वेन तादृशश्रुतज्ञानवजातिमत्वस्यैकेन्द्रियाव्यक्त श्रुतज्ञानेऽपि सद्भावनोक्ताव्याप्तिदोपोद्धारोऽभ्यूह्य इति । " मइपुष्वगं सुतं" इत्यागमवचनमनुसृत्याह-मतिपूर्व श्रुतमु मिति । अनेन श्रुतस्य भतिहेतुकत्वं प्रतिपावते, पूर्वपदस्य हेतुत्वार्थकत्वात् , ' सन्यज्ञानपूर्षिका पुरुषार्थसिद्धिः' इत्यादौ तथादर्शनादिति । अनुप्रेक्षादिकालेऽभ्यूयाभ्यूोत्यादि-अनेनानुप्रेक्षादिकालीमोहापरपर्यायस्य मतिज्ञानस्य श्रुतज्ञाने हेतुत्वं ज्ञापितम् । मत्यैवेति ।ऽमत्या, न मतिज्ञानमन्तरणेत्यर्थः । प्राप्यत इति गृह्यत इत्यर्थः । एतेन परोपदेशश्रवणादिमतेरेव तदाहित. संस्कारद्वारा श्रुतज्ञान प्रति हेतुत्वं व्यञ्जितं भवति । एवञ्च श्रुतमात्र एव द्रव्यश्रुतग्रहणस्थ हेतुत्वं लभ्यते । दीयत इति व्याख्यायते इत्यर्थः । एतेन व्याख्यानुकूलश्रुतसङ्कल्प तदिष्टसाधनतामतेहेतुत्वं न्यज्यते । स्थिरीक्रियत इति-इत्थञ्चाविस्मृत्यनुकूलधारणाच्यापाररूपाया मतेस्तरकोलिकपरिस्फुतिरूपश्रुतहेतुत्वं व्यवस्थाप्यते । अन्यथेति-मत्यभाव इत्यर्थः । श्रुतज्ञाभस्यैते पूरणादयोऽर्था विशिष्टाम्यूहधारणादीनन्तरेण कत्तुं न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमैव, इति सर्वया श्रुतस्य मतिरेव कारणम्, श्रुतं तु कार्यमित्याह-श्रुतपूरणान्मतिरित्यादि। न चेत्यस्यानुपपत्तिरित्यनेनान्वयः। समकालत्वनिर्देशादिति-" जत्थ महनाणं तत्य सुअमाणं " इति नन्दीसूत्रवचनादिति भावः । उक्तसिद्धान्तवाक्यं हि..