________________
२२८ :
तरवार्थविवरणदार्थदीपिका 1 पंचदश सू० टी० द्वितीयां लब्धिरूपां धारणां कथयति । यदाऽपाय स्पदिविषयस्य कृत्वाऽन्यत्रीपयुक्तो भवति तदाप्यसो लब्धिपा धारणा समस्त्येवेति । अवधारण त्यनेन तृतीय भेदं कथयति । यदा कालान्तरे तमेव प्रागनुभूतं विषयमालाव्य ज्ञानमुदेति तदा तदवधारणमिति । पर्यायानाह-धारणा प्रतिपत्तिरित्यादि । धारणा प्रतिपत्तिर्नाम परिच्छिन्नेऽर्थे यावदन्यत्रोपयोग न याति तावदनाशः । अवधारणं कालान्तरानुस्मरणं गृहीतम् । अवस्थानमित्यनेनान्यत्र पदार्थे उपयुक्तस्य लब्धिरूपा धारणा, निश्चय इति प्रतिपत्तिरित्यस्य पर्यायः । अवगम इत्ययं कालान्तरानुस्मरणरूपावधारणस्थ, अवयोध इत्ययं तु मत्यवस्थानस्य लब्धिरूपस्येति । नवविच्युतिः प्रध्वंसानवच्छिन्ना सत्ता घटादेखि ज्ञानस्य न कोऽयमर्थस्स एव प्रष्टव्य इति, तथा चानुवाकवाक्यजन्ययोवस्यानुवाद्यवाक्यजन्यबोधविषयमाहित्येन यथा न प्रामाण्यं तथा प्रकृतेऽपीति । किञ्च प्रथमनिश्चयात्मकज्ञानेनैव तत्पूर्वसंशयनिवृत्तद्वितीयज्ञानेन कार्यान्तराकरणेन तस्य निष्फलत्वादप्रामाण्यामिति वाच्यम् , तत्तत्कालभेदेन तत्तविशिष्टत्वेन पटपटतरपटतम मिनधर्मवासनाजनकत्येन वा भिन्नस्यैव स्वसजातीयस्थार्थस्य ग्रहणात्, तथा च भिन्नभिन्न स्वसजातीयार्थग्राहित्वनापूर्वार्थग्राहकत्वात् प्रामाण्यम् । भिन्नभिन्नवासनाद्वारा दृढदृढतरदृढतमस्मरणादिलक्षणकार्यजनकतयाऽपि प्रामाण्यमिति । चतुतो गृहीतग्राहित्यमप्रमात्वव्यवहारे न प्रयोजकम् , कि तदभाववनि विशेष्यतानिरूपिततनिष्ट प्रकारतानिरूपज्ञानत्वमेवेति यथार्थावगाहिन्यासा नाप्रामाण्यम् , अत एव तजन्यस्मृतेरपि प्रामाण्यमिति दिक् । द्वितीयां लब्धिरूपामितिस्मृतिज्ञानावरणीयकर्मक्षयोपशमरूपा सा यधपि न ज्ञानरूपा तथाप्यायकार्यत्वेन स्मृतिकारणत्वेन ज्ञानोपचार त कृत्वा धारणाभेदत्वेनात्रोक्तति भावः । यदा काला रे तमेव प्रागनुभूतमित्यादि-समानविषयत्वप्रत्यासत्यानुभवत्योः कार्यकारणभावात् पूर्वानुभव. , विषयविषयकं स्मृतिरूपं प्रत्यभिज्ञानरूपं । यदा ज्ञानमुद्भवति तदा तदुभयमवधारणमित्युच्यते, नात तेरिव प्रत्यभिज्ञानस्यापि पूर्वापायजन्यत्वेन तद्भदेनाधिकभेदप्रसङ्गः, धारणातीय भेदरमृतिपदेन तत्ताविषयकज्ञानविशेषग्रहणात् प्रत्यभिज्ञानस्यापि तद्रूपत्यादिति भावः । अत्र धारणाभेदत्रयाणां भिन्नलक्षणानामपि धारणात्वनावग्रहभेदयस्थावग्रहत्येनेवैक्यानाधिक मेदकल्पनाप्रसङ्ग इति भावनीयम् । कालान्तरानुगरणरूपावधारणस्यत्यस्य लव्विरूपस्येत्यस्य च पर्याय इत्यनेनान्वयः । अविच्युतिवासनास्त्यात्मकभेदत्रयवती धारणाऽपायानातिरिच्यते, तस्या अपायातिरिक्तत्वेनाऽवमानत्वादिति मतिज्ञानस्य भेदान्तरात्मिका धारणा नास्ति किन्त्यपायविशेषरूपैव सेत्याशयेन पर आशङ्कते-नवविच्युतिरित्यादि । प्रध्वंसानवच्छिन्ना सत्तेति-अपायज्ञानस्य यावन नाशस्तावत्कालीनसत्तेत्यर्थः । घटादेवि ज्ञानस्य न भेदान्तरमिति घटादियविन्न नश्यति तावत्कालीनवटसत्ता घटात्मिकैव, न तु तत्तत्क्षणभेदेन भिन्ना, तद्वदुक्तलक्षणा स्वरूपसत्ता तावत्कालीनापायस्वरूपानातिरिक्ता किन्दपायविशेषरूपैवेति ज्ञानस्य नाविच्युतिलक्षणं भेदातरम्, न हि काल