________________
सत्वार्थ विवरहार्थदीपिका । ४० सू० टी०
। १०९ : अन्यथा कार्यत्वावच्छिन्ने करणत्वेन हेतुतथैकस्य कर्तुरिकस्य करणस्यापि सिद्धयापतेः, न च कार्यत्वावच्छिन्ने उपादानप्रत्यक्षत्वेन हेतुत्वाद् व्यणुकाधुपादानप्रत्यक्षाश्रयतयेश्वरसिद्धिः, ततत्पुरुषीयवाद्यर्थिप्रवृत्ति प्रत्येक तत्पुरुषीयघटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वात् । न च प्रवृत्ताविव घटादावपि प्रत्यक्षेच्छयोपरकर्तजन्यत्वेन व्याप्त कार्थत्वं देवकूलादिषु निश्चितं तत्तत्र नारतीत्यसिद्धो हेतुः, केवलं कार्यत्वमात्र प्रसिद्धं तत्र, न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितो धर्मशब्दमात्रेणाऽभेदी हेतुस्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति, साध्यविपर्ययेऽपि तस्य भावाविरोधात् , यथा घटान्तेन पल्मीके धर्मिणि कुम्भकारकृतत्वसिद्धये मृद्विकार त्वमानं हेतुत्वेनोपादीयमानमिति । यत्कर्तजन्यत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रमाणतः प्रसिद्धं तरिक्षयादावसिद्धं, यच्च क्षित्यादी कार्यत्वमात्रं हेतुत्वेनोपन्यस्यमानं सिद्धं तत्साध्यविपर्यये वाधकप्रमाणाभावात् सन्दिग्धव्यतिरकत्वेनानकान्तिकं न ततोऽभिमतसाध्यसिद्धिः। नन्वतत्कार्यसमं नाम जात्युत्तरं, तथाहिकार्यत्वादनित्य२०८ इत्युक्ते जातिवाधनाऽपि प्रेरयति-किमिदं बटादिगतं कार्यत्वं हेतुत्वेनोपन्यस्तं किं वा शब्दगतमयोभयगतमिति ? आधे पक्षे हेतोर सिद्धिः, न बन्यधर्मोऽन्यत्र वर्तते, तथा च हेतु स्वरूपासिद्धः, द्वितीयेऽपि साधनविकलोवादिष्टान्तः, तृतीयेऽपि एतावदोपापिति, .एतचे कार्यसमं नाम जात्युत्तरम् , तदुक्तम्-" कार्यवान्यत्वलशन यत्साध्यासिद्धिदर्शनं तत्कायसममिति" कार्यत्वसामान्यस्यानित्यवसाधकत्येनोपन्यासेऽभ्युपगते धार्मिभेदेन विकल्पनवत् कर्तजन्यत्वे क्षित्यादेः कार्यत्वमात्रेण साध्येऽभीष्टे धर्मिभेदेन कार्यत्वादेर्विकल्पनात्', असदेतत् , यतः सामान्येन कार्यत्वानित्यत्वयोविपर्यये बाधकप्रमाणबलाद् व्याप्तिसिद्धौ कार्यत्वसामान्यं शदादौ धर्मिण्युपलभ्यमानमनित्यत्वं साधयतीति कार्यत्वमात्रस्यैव तत्र हेतुत्वोपन्यासे धर्मिविकल्पनं यत्तत्र क्रियते तत्सर्वानुमानोच्छेद करवन कार्यसमजात्युत्तरतामासादयति, न त्वेवं क्षित्यादेः कर्तजन्यत्वे साध्ये कार्यत्वसामान्यं सर्वोपसंहारेण व्याप्त्या हेतुस्सिद्धः, तस्य विपर्यये बाधकप्रमाणाभावात्, सन्दिग्धविपक्षव्यावृत्तिकत्वेनाऽनैकान्तिकत्वात्', तथा च कार्यत्वसामान्यमात्रस्य हेतोसोपसंहारेण व्याप्स्यसिद्धेस्तेन न क्षित्यादेः कर्तजन्यत्वसिद्धिः, अन्यथा मृद्विकारत्वहेतुना घटवल्मीकस्यापि कुसकारजन्यत्वं सिद्धं स्यात्, तथा चोक्तम्-"अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित् । घटादेः कारणात् सिद्धथेवल्मीकस्यापि तस्कृतिः ॥१॥" इति । यच्च कर्तजन्यस्येन व्याप्तं देवकुलादौ कार्यत्वं प्रतिपनं यदक्रियादर्शिनोऽपि जीर्णप्रासादादौ कृतस्वबुद्धिमुत्पादयति तत्तत्राऽसिद्धमिति प्रतिपादितं प्राक, तथा च कर्तृजन्यत्वव्याप्तं न कार्यत्वसामान्यं, किन्तु कार्यविशेषत्वमेव, तच्च प्रायोगिकरवरूपमेयेति तदेव शैलादिव्यावृत्तं देवकुलाधनुवृत्तं सकलजन०यवहारसिद्धं कर्तृजन्यतावच्छेद कमस्त्विति नोक्तानुमाननेश्वरसिद्धिरिति भावः । तथाजनभ्युपगमेऽतिप्रसङ्गदोपमाह-अन्यथेति। सियापत्तरिति-तथा च ६हानिरकल्पनापत्तिस्यादिति भावः। न त्यस्येश्वरसिद्धिरित्यनेनान्वयः, निषेधे हेतुमाह-तत्तत्पुरुषायति। न चेत्यस्य साम्प्रतमिलनेनान्वयः । प्रत्यक्षेच्योरिति-उपादानप्रत्यक्षचिकीर्पयोरित्यर्थः ।