________________
शिवसूत्रवार्तिकम् ।
[ १ उ०
इत्युक्तनीत्या हृदयं विश्वविश्रान्तिभित्तिभूः । स्वसंवित् तत्र संघट्टश्चित्तस्य चलतः सतः ॥ ७८ ॥ तदैकात्म्यपरामर्शजागरूकस्वभावता | तस्मादृश्यस्य विश्वस्य नीलदेहादिरूपिणः ॥ ७६ ॥ स्वापस्यैतदभावस्य शून्यस्यापिच दर्शनम् । 'स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः ॥ ८० ॥ इति श्रीमत्यभिज्ञेोक्तनीत्या पत्युरिव प्रभोः । स्वाङ्गकल्पतया तस्य यथावत्प्रथनं भवेत् ॥ ८१ ॥ १५ ॥
१०
उक्तेऽप्येवं प्रमेयेऽस्मिन्नुपायान्तरमुच्यते ।
शुद्ध तत्त्वसंधानाद्वाऽपशुशक्तिः ॥ १६ ॥ शुद्धं तत्त्वं परं वस्तु यत्तत्परशिवात्मकम् ॥ ८२ ॥ तत्संधानं प्रपञ्चस्य तन्मयत्वेन भावनम् । तेनैव यस्य पश्वाख्या बन्धशक्तिर्न विद्यते ॥ ८३ ॥ तत्सदाशिववत्सोऽपि विश्वस्य जगतः पतिः ॥ १६ ॥
शुद्धतत्त्वानुसंधानवत एवास्य योगिनः ॥ ८४ ॥ वितर्क आत्मज्ञानम् ॥ १७ ॥
वितर्कः प्रोक्तसंधान ध्वस्तबन्धस्य योगिनः । विश्वात्मा शिव एवाहमस्मीत्यर्थविचिन्तनम् ॥ ८५ ॥ एतदेव स्फुरद्रूपमात्मनो ज्ञानमुच्यते ॥ १७ ॥
किंचास्य प्रोक्तवैतर्कस्वात्मविज्ञानशालिनः || ८६ ॥