________________
सटीके षड्दर्शनसमुच्चये वेति संशय इति संशयापादानप्रकारभेदाच संशयसमातः कार्यसमा जातिभिद्यते। .. तदेवमुद्भावनविषयविकल्पभेदेन जातीनामानन्त्ये संकीर्णोदाहहरणविवक्षया चतुर्विंशतिजातिभेदा एते दर्शिता इति ॥ ३१ ॥ दूपणाभासानुक्त्वा निग्रहस्थानमाहनिग्रहस्थानमाख्यातं परो येन निगृह्यते । प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवत् ॥ ३२ ॥
येन केनचिद् रूपेण परो विपक्षो निगृह्यते परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानमाख्यातं कथितमिति, कतिचिद्भेदान् नामतो निर्दिशनाह-प्रतिज्ञाहानिसंन्यासविरोधादिविभेदवद् , हानिसंन्यासविरोधाः प्रतिज्ञाशब्देन सम्बध्यन्ते, आदिशब्देन शेषानपि भेदान् परामृशति, एतद्रूषणजालमुत्पाद्यते येन तन्निग्रहस्थानम्।
यदुक्तं-'विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम्' तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिः, दूषणाभासे च दूषणबुद्धिरिति, अप्रतिपत्तिः साधनस्यादूवणं, दूषणस्य चानुद्धरणम् , तद्धि निग्रहस्थान द्वाविंशतिभेदम् , तद्यथा-प्रतिज्ञाहानिः, प्रतिज्ञाऽन्तरं, प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः, हेत्वन्तरम् , अर्थान्तरं,-निरर्थकम् , अविज्ञातार्थम् , अपार्थकम् , अाँप्तकालं, न्यूनम् , अधिकं, पुनरुक्तम् , अन भाषणम् , अज्ञानम् , अप्रैतिभा, विक्षेपो मतानुज्ञा, पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपेंसिद्धान्तः, हेत्वाभासः।
तत्र हेतावनैकान्तिकीकृते प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽभ्युपगतवतः प्रतिज्ञाहानिर्नाम निग्रहस्थानं भवति, यथा अनित्यः शब्द, ऐन्द्रियिकत्वाद् घटवदिति प्रतिज्ञासाधनाय वादी वदन् परेण सामान्यमैन्द्रियिकमपि नित्यं दृष्टमिति हेतावनैकान्तिकीकृते, यद्येवं ब्रूयात् सामान्यवद्धटोऽपि नित्यो भवति स एवं ब्रुवाणः शब्दनित्यत्वप्रतिज्ञां जह्यात् ।