________________
सटीके षड्दर्शनसमुच्चये अथ प्रमेयलक्षणमाह-'प्रमेयं त्वात्मदेहार्थबुद्धीन्द्रियसुखादि चेति' प्रमाणग्राह्योऽर्थः प्रमेयं, तु पुनरर्थे, आत्मा च देहश्चेति द्वन्द्वः, आदिशब्देन शेषाणामपि षण्णां प्रमेयार्थानां संग्रहः, तच नैयायिकसूत्र आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदेन द्वादशविधं, तत्र सचेतनत्वकर्तृत्वसर्वगतत्वादिधर्मरात्मा प्रमीयते, एवं देहादयोऽपि प्रमेयतया ज्ञेयाः, अत्र तु ग्रन्थविस्तारभयान प्रपञ्चिता, इतरग्रन्थेभ्योऽपि सुज्ञेयत्वाचेति ॥ २४॥ संशयादिस्वरूपमाहकिमेतदिति सन्दिग्धः प्रत्ययः संशयो मतः । प्रवर्तते यदर्थित्वात्तत्तु साध्यं प्रयोजनम् ॥ २५ ॥
दूरावलोकनेन पदार्थपरिच्छेदकधर्मेषु संशयानः प्राह-किमेतदिति । एतत्कि स्थाणुर्वा पुरुषो वेति ? यः संदिग्धः प्रत्ययः स संशयो नाम तत्वविशेषो मतः संमतः तच्छासन इति,
प्रयोजनमाह-तत्तु यत्पुनः प्रयोजनं नाम तत्त्वं यत्किमित्याहअर्थित्वात्प्राणी साध्यं कार्य प्रति प्रवर्तते, प्रतीत्यध्याहार्यम् , न हि निष्फलकार्यारम्भ इत्यथित्वादुक्तम् , एवं यत्प्रवर्तनं तत्प्रयोजनमित्यर्थः ॥ २५ ॥
दृष्टान्तस्तु भवेदेष विवादविषयो न यः। सिद्धान्तस्तु चतुर्भेदः सर्वतन्त्रादिभेदतः ॥ २६ ॥
तु पुनरेष दृष्टान्तो नाम तत्त्वं भवेत् , यत्किमिति ? विवादविषयो न, यस्मिन्नुपन्यस्ते वचने वादगोचरो न भवति, इदमित्थं भवति न वेति विवादो न भवतीत्यर्थः, तावञ्चान्वयव्यतिरेकयुक्तोऽर्थः स्खलति यावन्न स्पष्टं दृष्टान्तोपष्टम्भः । उक्तं च
तावदेव चलत्यर्थो मन्तुर्गोचरमागतः ।
यावन्नोत्तम्भनेनैव दृष्टान्तेनावलम्ब्यते ॥ एष दृष्टान्तो ज्ञेयः। सिद्धान्तः पुनश्चतुर्भेदो भवेत् , कथमित्याह-सर्वतन्त्रादिभेदत इति । सर्वतन्त्रसिद्धान्त इति प्रथमो भेदः। आदिशब्दाझेदत्रयमिदं