SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ सटीके षड्दर्शनसमुच्चये संस्कार इति । इह परभवविषय संतानपदार्थनिरीक्षण प्रबुद्ध पूर्वभावानुरूप संस्कारस्य प्रयातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः । यदाह - ' यस्मिन्नेव हि सन्तान आहिता कर्मवासना | hi aa red कार्पासे रक्तता यथा ॥ इति । रूपमिति । रगरगायमाणपरमाणुश्चयः, बौद्धमते हि स्थूलरूपस्य जगति वर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणत्वात् परमाणव एव तात्त्विकाः चः पुनरर्थः एवेति पूरणार्थः ॥ ५ ॥ दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्यार्थसमुदायतत्त्व रूपमाह समुदेति यतो लोके रागादीनां गणोऽखिलः । आत्मात्मीयस्वभावाख्यः समुदयः स संमतः ||६|| यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिलः समस्तो गणः समुदेत्युद्भवति, कीदृग् ? इत्याह - आत्मात्मोयस्वभावाख्यः, अयमात्माऽयञ्चात्मीयः, पदसमुदायोपचारादयं परोsयञ्च परकीय इत्यादिभावो रागद्वेपनिबन्धनं तदाख्यस्तन्मूलो रागादीनां गणः आत्मात्मीयरूपेण रागरूपः परकीयपरिणामेन द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं सम्मतो बौद्धदर्शनेऽभिमत इति ॥ ६ ॥ अथ तृतीयचतुर्थतत्वे प्रपञ्चयन्नाह - क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या । स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ॥ ७ ॥ सर्वसंस्काराः क्षणिकाः, सर्वेषां विश्वत्रयविवर विवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याघुलेखन ये संस्कारा ज्ञानसन्ताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः; यत्प्रमाणयन्ति सर्वं सत् क्षणिकमक्षणिके क्रमयौगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमप्यूह्यं क्षणिकत्वाविशेषकम्,
SR No.010485
Book TitleShaddarshan Samucchaya
Original Sutra AuthorN/A
AuthorDamodar Pandit
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages85
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy