________________
सटीके पड्दर्शनसमुच्चये तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिकं सांख्यं जैन वैशोषिकं तथा। जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥
अहो इति इप्टामन्त्रणे, दर्शनानां मतानाममूनि नामानीति संग्रहः, ज्ञेयानीति क्रियाऽस्तिभवत्यादिवदनुक्ताऽप्यवगन्तव्या, तत्र चौद्धमिति बुद्धो देवतास्यति बौद्धं सौगतदर्शनम् , नैयायिकं पाशु. पतदशनम् , तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः, सांख्यमिति कापिलदर्शनम् आदिपुरुषनिमित्तेयं संज्ञा, जैनमिति जिनो देवताऽस्येति जैनमार्हतम् , वैशेषिकं काणाददर्शनम् दर्शनदेवताऽऽदिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिष्टंमिति वैशेषिकम् , जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् , चः समुच्चयस्य दर्शकः, एवं तावत् पड्दर्शननामानि ज्ञेयानि शिष्येणेत्यवसेयम् ॥ ३॥ अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद्वौद्धमतमेवादावाचष्टेतत्र बौद्धमते तावदेवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥ ४॥
तत्र तस्मिन् वौद्धमते सौगतशासने, तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभहारको दर्शनादिकरः किलेत्याप्तप्रवादे तमेव विशिनष्टि-कथं भूतस्तत्त्वनिरूपकत्वेन प्ररूपको दर्शकः कथयितेति यावत् , केषामित्याह-आर्यसत्यानाम् , आर्यसत्यनामधेयानां तत्त्वानाम् , कतिसंख्यानामिति ? चतुर्णां चतूरूपाणाम् , किंरूपाणाम् ? इत्याह-दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम् , आदिशब्दोऽवयवार्थोऽत्र।
१. असमञ्जसेयमुक्तिः-न्यायदर्शनस्य पाशुपतत्त्वेनाप्रसिद्ध, पाशुपतदर्शनस्य न्यायप्रस्थानारूढत्वं प्रायेणेत्यन्यदेतद् । २. इदं चिन्त्यम्, इत्थं हि न्याय्यमिति स्याद्, 'नैयायिकेतिपदं तूक्थादिगणघटकन्यायशब्दादध्येतृवेदिवन्यतरार्थकठका निष्पद्यते । ३. आपातरुचिरेयमुक्तिः, वस्तुतस्तु परानुपज्ञस्य विशेषात्मकस्य पञ्चमपदार्थस्य वेत्तत्वादित्थं ख्यातिः।
अशीतिशतं क्रियाणामक्रियावादिनो भवन्ति चतुरशीतिः। आत्मवादिनः सप्तषष्टिविनयवादिनां च द्वात्रिंशद् ॥