________________
लघुतिः ]
शब्दार्णव
सुपि ॥ ७ ॥ सुर्वते वाचि धोरातः को भवति । द्वाभ्यां पिवतीति द्विषः । पादपः । कच्छ पः । स्वर्गाय प्रददातीति स्वर्गप्रदः ।
।
+ नखमुचादयः ॥ ८ ॥ एते भावे वेदितव्याः । नखान् सुचतीति नखमुचानि धनूंषि । मूलानि विभुजतीति मूलविभुजो रथः । को मोदते कुमुदं । समे तिष्ठतीति समस्थ: । विषमस्थ: । पर्वतस्थ: ।
स्थः ॥ ९ ॥ सुपि वाचि तिष्ठतेः को भवति । आखूनामुत्थानं आखूत्थं । शलभोत्थं । अनिदिष्टार्थत्वात् स्वार्थे भावे भवति ।
दुहो घव ॥ १० ॥ दुहेः सुपि वाचि को भवति घश्चांतादेशः । कामं दोग्धीति कामदुघो धर्मः ।
* तुंदशोके परिमृजापनुदोऽलससुखाइरे ११ तुंदशोकयोर्वाचोराभ्यां को भवत्यलससुखाहरयोः । तुंदं परिमार्ष्टि तुंदपरिमृजोऽलसः । शोकमपनुदतीति शोकापनुदः पुत्रः । तुंदपरिमार्ज आतुरः । शोकापनोदो धर्माचार्योऽन्यत्र ।
गष्टक् ॥ १२ ॥ गायतेः कर्मणि वाचि टग भवति । वक्रं गायतीति वक्रगः । वक्रगी ।
सुराध्वोः पिवः ॥ १३ ॥ सुरासीघ्वोर्वाचोः पिबतेष्टक् भवति । सुरापः । सुरापी । सीधुपः । सीधुपी ।
* ओऽईः ॥ १४ ॥ कर्मणि वाचि अर्हतेर - स्त्यो भवति । राज्यार्हः। पूजामर्हतीति पूजार्हो जिनः । प्रतिमा ।
* धृवोऽसूत्रे ॥ १५ ॥ असूत्रे वाचि धृत्रो - ऽस्त्यो भवति । गणधरः । शशिधरः । असूत्र इति कि ? सूत्रधारः ।
शम्यस्थो धोः खौ ॥ १६ ॥ शमिवाचि स्थावर्जिताद्धोरत्यो भवति खौ । शंभवः । शंकरः । शंवदः । पुनर्धग्रहणं बाधकबाधनार्थे । तेन खुविषये हेत्वादिना परत्वादद् माभूत् । शंकरा नाम परिव्राजिका । अस्य इति किं ? शंस्थः। खाविति किं ? शंकरी जिनविद्या |
の
४९
स्तम्बेरमकर्णेजपते ॥ १७ ॥ एतौ हस्ति, नि सूचके च निपात्येते खौ। स्तंबेरमो हस्ती । कर्णेजपः सूचकः ।
+ शक्तिलांगलांकुशष्टिंतोमर धनुर्घटे ग्रहः १८ शक्त्यादिषु वाक्षु ग्रहेरत्यो भवति । शक्ति गृह्णातीति शक्तिमहः । लांगलग्रहः । अंकुशग्रहः । ऋष्ठिग्रहः । तोमरग्रहः । धनुर्ब्रहः । घटग्रहः । एष्विति किं ! कमंडलुप्राहः ।
। पा०२ ।
+ सूत्रे धारणे ॥ १९ ॥ सूत्रे वाचि प्रहरत्यः स्यद्धारणेऽर्थे । सूत्रग्रहः । सूत्रग्राहोऽन्यः ।
* हुर्वयोऽनुत्सेधे ॥ २० ॥ कर्मणा ञोऽत्यो भवति वयस्यनुत्सेधे च गम्यमाने । कबचहरः क्षत्रियकुमारः । अंशहरः पुत्रः । वयोऽनुसेव इति किं ? भारहारः ।
आङि शीले ॥ २१ ॥ कर्मणि आडिच वाचि शीले हृञोऽत्यो भवति । पुष्याण्याहरत्यैवं शील: पुष्पाहरः । सुखाहरः । आङीति किं ? पुष्पाणिहर्ता ।
* दृतिनाथे पशाविः ॥ २२ ॥ दृतिनाथयोर्वाचोर्द्वत्रः पशावर्थे कर्तरि इर्भवति । दृतिं चर्ममयीं खत्वां हरतीति दृतिहरिः । नाथहरिः पशुः । दृतिहारोऽन्यः ।
फलेग्रह्मात्मंभरिकुक्षिंभरिः ॥ २३ ॥ एते शब्दाः निपात्यते । फलानि गृह्णातीति फलेग्रहिवृक्षः । आत्मानं बिभर्ति - आत्मंभरिः । कुक्षिंभरिः । फलस्यैत्वमात्मकुक्ष्योश्च मुम् निपात्यते ।
शकृत्स्तंबे वत्सनीहौ कुः ॥ २४ ॥ शकृत्स्तंबयोर्वाचोः कृञो वत्से व्रीहौ चार्थे इर्भवति । शङ्कत्करिः वत्सः । स्तंबकरिः ब्रीहिः । शकृत्कारों
ऽन्यत्र ।
किंयत्तद्बहुवः ॥ २५ ॥ किमादिषु वाक्षु कृञोऽत्यो भवति । किंकरः । किंकरा । यत्करः । तत्करः । बहुकरः ।
* स्यिदिवाविभानिशाप्रभाभास्करांतानंतादिनदीलिपिलिविबलिभक्तवाहहर्द्धनुघारुः कर्तृ चित्रक्षेत्रे ॥२६॥ स्विसंज्ञकेषु