________________
__ . विपापहारस्तोत्रम् । एयपापं परपुण्यहेतुं नमाम्यहं बंद्यमवंदितारं ॥ ३३॥ अशब्दमस्पर्शमरूपगंधं त्वां नीरसं तद्विषयावबोध ॥सर्वस्य मातारममेयमन्यजिनेंद्रमस्मार्यमनुस्मरामि ॥ ३४ ॥ अगाधमन्यैर्मनसाप्यलंध्यं निष्किचनं प्रार्थितमर्थवद्भिः। विश्वस्य पारं तमदृष्ट. पारंपतिं जिनानां शरणं व्रजामि ॥३५॥ त्रैलोक्यदीक्षागुरवे नमस्ते यो वर्धमानोपि निजोन्नतोभूत् । प्राग्गंडशैलः पुनरद्रिकल्पः पश्चान्न मेरुः कुलपर्वतोभूत् ॥ ३६॥ खयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्यन.बाधकत्वं । नलाघवं गौर