________________
जैन पूजा पाठ सप्रह
नित्य स्वदेह-परिमाणमनादिसंश, द्रव्यानपेक्षममृतं मरणाद्यतीतम् । मन्दारकुन्दकमलादिवनस्पतीनां, पुष्पैर्यजे शुभतमैत्ररसिद्धचक्रम् ॥४॥ ॐ ही सिद्धचकाधिपतये सिद्धपरमेष्ठिने कामवाणविध्वसनाय पुप्प० । ऊर्ध्वस्वभावगमनं सुमनोव्यपेतं । ब्रनादिवीजसहित गगनावभासम् ।। क्षीरान्नसाज्यवटकै रसपूर्णगर्भनित्यं यजे चरुवर्वर सिद्धचक्रम् ।। ॐ हीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्य । आतंक-शोक-भय-रोग-मद-प्रशांतं - निभावधरणं महिलानिदेशं । कर्पूरवर्तिबहुभिः कनकावदातैदीपैर्यजे रुचिवरैर्वरसिद्धचक्रम् ॥६॥ ॐ ही सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीप । पश्यन्समस्तभुवनं युगपन्नितांतं । त्रैकाल्यवस्तुविषये निविड़-प्रदीपम् । सद्रव्यगंधधनसारविमिश्रितानां । धूपैर्यजे परिमलैर्वरसिद्धचक्रम् ॥७॥ ॐ हीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिनेऽष्टकर्मदहनाय धूप। सिद्धासुराधिपतियक्षनरेंद्रचक्र ध्येयं शिवं सकलभन्यजनैः सुवंद्य । नारगिपूंगकदलीफलनारिकेलैः सोऽहं यजे वरफलैर्वरसिद्धचक्रम् ॥८॥ ॐ हीं सिद्धचकाधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फल । गन्धाब्यं सुपयो मधुव्रतगणैः संगं वरं चन्दनं ।
पुष्पौधं विमलं सदक्षतचयं रम्यं चरुं दीपकं ।। धूपं गंधयुतं ददामि विविधं श्रेष्ठं फलं लब्धये ।
सिद्धानां युगपत्नमाय विमलं सेनोचरं वांछितं ॥ ॐ हीं सिद्धचक्राधिपतये सिद्धपरमेष्ठिनेऽर्ष निर्वपामीति स्वाहा ।