________________
सुमेधा विक्रमी स्वामी दुराधर्षों निरुत्सुफः । विशिष्टः शिष्टभक शिष्टः प्रत्ययः कामनोऽनघः॥शा क्षेमी क्षेमकराऽक्षय्यः क्षेमधर्मपतिः क्षमी। अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥६॥ सुकृती धातुरिज्याहः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥७॥ सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ।।८।। स्थेयान्स्थवीयादीयान्दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुराधो गरीयसा ॥॥ सदायोगः सदाभोगः सदासप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥१०॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिमृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥११॥
इति असस्कृतादिशतम् ॥७॥ अर्घम् । बृहवृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमांञ्छेमुषीशो गिरांपतिः ॥१॥ नैकरूपो नयोतुङ्गो नैकात्मा नेकधर्मकृत् । अविज्ञेयोऽप्रतात्मा कृतज्ञः कृतलक्षणः ॥२॥ ज्ञानगर्भो दयांगों रत्नगर्भः प्रभास्वरः। पागों जगद्गर्भो हेमगर्भः सुदर्शनः ॥३॥ लक्ष्मीवांत्रिदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोज्ञाङ्गो धीरो गम्भीरशासनः ॥४॥ धर्मयपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥शा
१२