________________
२२९
जन पूजा पाठ सह
श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः । तीर्थकृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥ २ ॥ अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः । मुक्त. शक्तो निरावाघो निष्कलो भुवनेश्वरः || ३ || निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिरनामयः ।
अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥ ४ ॥ अग्रणीग्रमिणीनेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धम्यों धर्मात्मा धर्मतीर्थकृत् ॥ ५ ॥ वृपध्वजो वृषाधीशो वृषकेतुर्वृषायुधः । वृषो वृषपतिर्भर्ता वृषभाङ्को वृषोद्भवः ॥ ६ ॥ हिरण्यनाभिभूतात्मा भूतभृद् भूतभावनः ।
६ ॥
rai विभवो भास्वान् भवो भावो भवान्तकः ॥ ७ ॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयंप्रभः प्रभूतात्मा भूतनाथो जगत्पतिः ॥ ८ ॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित् ॥ सुगतिः सुश्रुतः सुश्रुत् सुवाक् सूरिर्वहुश्रुतः । विश्रुतः विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥ १० ॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वर ॥ ११ ॥ इति दिव्यादिशतम् ॥ २ ॥ अर्धम् । स्थविष्ठ' स्थविरो जेष्ठ' पृष्ठः श्रेष्ठो वरिष्ठी । स्थेष्ठो गरिष्ठो वहिष्ठ श्रेष्ठोऽमिठो गरिष्ठगी ॥१॥ विश्वभृद्विश्वसृट् बिश्वेट् विश्वविनायक विश्वाशीविश्वरूपात्मा विश्वजिद्विजितान्तकः ॥ २ ॥