________________
चतुःशरण-माङ्गल्यमूर्तिस्त्व चतुरस्रधी'। पञ्च-ब्रह्ममयो देव पावनस्त्व पुनीहि माम् ॥१२॥ स्वर्गावतरणे तुभ्यं सद्योजातात्मने नमः। जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते ॥१३॥ मनिष्क्रान्तावघोराय पर प्रशममीयुषे । केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते ॥१४॥ पुरस्तत्पुरषत्वेन विमुक्त-पद-भागिने । नमस्तत्पुरुषावस्थां भाविनी तेऽद्य विनते ॥१॥ ज्ञानावरणनिहोसान्नमस्तेऽनन्तचक्षुषे । दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने ॥१६॥ नमो दर्शनमोहम्ने क्षायिकामलदृष्टये । नमश्चारित्रमोहघ्ने विरागाय महौजसे ॥१७॥ नमस्तेऽनन्त-वीर्याय नमोऽनन्त-सुखात्मने । नमस्तेऽनन्त-लोकाय लोकालोकावलोकिने ॥१८॥ नमस्तेऽनन्त-दानाय नमस्तेऽनन्त-लब्धये। नमस्तेऽनन्त-भोगाय नमोऽनन्तोपभोगिने ॥१६॥ नम' परम-योगाय नमस्तुभ्यमयोनये । नमः परम-पूताय नमस्ते परमर्षये ॥२०॥ नमः परम-विद्याय नमः पर-मत-च्छिदे । नम परम-तन्वाय नमस्ते परमात्मने ॥२१॥ नम परमरूपाय नमः परम-नेजसे । नम परम-मार्गाय नमस्ते परमेष्ठिने ॥२२॥ परमादिजुषे धाम्ने परम-ज्योतिषे नमः । नम पारतमःप्राप्तधाम्ने परतरात्मने ॥२३॥ नम क्षीण-कलङ्काय क्षीण-बन्ध नमोऽस्तु ते ।