________________
पञ्चज्ञानधरास्त्रयोऽपि वलिनो ये बुद्धिऋद्धीश्वराः
सप्तते सकलाचिंता गणभृतः कुर्वन्तु ते मङ्गलम् ॥शा कैलासे वृषभस्य निर्वतिमही वीरस्य पावापुरे ___चम्पायां वसुपूज्यतुग्जिनपतेः सम्मेदशैलेऽर्हताम् । शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्थाहतो
निर्वाणावनयः प्रसिद्ध विभवाः कुर्वन्तु ते मङ्गलम् ॥६॥ ज्योतिय॑न्तर-भावनामरगृहे मेरौ कुलाद्री तथा
जम्बू-शाल्मलि-चैत्यशाखिषु तथा वक्षार-रूप्याद्रिपु । इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे
शैले ये मनुजोत्तरे जिनगृहाः कुर्वन्तु ते मङ्गलम् ॥७॥ यो गर्भावतरोत्सवी भगवतां जन्माभिषेकोत्सवो __ यो जातः परिनिष्क्रमेण विभवो यः केवलज्ञानभाक् । यः कैवल्यपुरप्रवेशमहिमा संभावितः स्वर्गिमिः
, कल्याणानि च तानि पञ्च सततं कुर्वन्तु ते मङ्गलम्।। इत्थं श्रीजिनमङ्गलाष्टकमिदं सौभाग्यसंपदं
कल्याणेषु महोत्सवेषु सुधियस्तीर्थकराणामुषः। ये शृण्वन्ति पठन्ति तैश्च सुजनैर्धर्मार्थकामान्विता । • लक्ष्मीराश्रयते व्यपायरहिता निर्वाणलक्ष्मीरपि III
इति मङ्गलाष्टकम्