________________
तब जिन चरणाज-युगं करुणामृत-शीतलं यावत् । संसार-ताप-तप्तः करोमि हदि तावदेव सुखी ॥१६॥ जगदेक-शरण भगवन् नौमि श्रीपदनन्दित-गुणौष । किं बहुना कुरु करुणामत्र जने शरणमापन्ने ॥२०॥
[परिपुष्पाञ्जलिं तिपामि]
विसर्जन संस्कृत
ज्ञानतोऽज्ञानतो वापि शास्त्रोकं न कृतं मया। तत्सर्व पूर्णमेवास्तु त्वत्प्रसादाग्जिनेश्वर ! ॥१॥ आह्वानं नैव जानामि नेव जानामि पूजनं । विसर्जनं न जानामि क्षमस्व परमेश्वर ! ॥ २॥ मन्त्रहीन क्रियाहीनं द्रव्यहीनं तथैव च । तत्सर्व क्षम्यतां देव रक्ष रक्ष जिनेश्वर ! ॥३॥ आहृता ये पुरा देवा लब्धभागा यथाक्रमम् । ते मयाऽभ्यचिता भक्त्या सर्वे यांतु यथास्थितं ॥४॥ सर्वमंगल मांगल्यं सर्व कल्याणकारकम् । प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ॥ ५॥