________________
२०२
जैन पूजा पाठ सग्रह निमित्तम् ॥१४॥ अवग्रहेहावाय-धारणाः॥१शा बहु-बहुविधक्षिप्रानिःसृतानुक्त-ध्रुवाणां सेतराणाम् ॥१६॥ अर्थस्य॥१७॥ व्यञ्जनस्यावग्रहः ॥१८॥ न चनुरनिन्द्रियाभ्याम् ॥१६॥ श्रतं मति-पूर्व द्वयनेक-द्वादश-भेदमा२०। भव-प्रत्ययोऽवधिदेव-नारकाणाम्।२१शक्षयोपशम-निमित्तः षड्विकल्पः शेषाणाम्॥२२॥ ऋजु-विपुलमती मनःपर्ययः ॥२३॥ विशुद्धयप्रतिपाताच्या तद्विशेषः॥ २४ ॥ विशुद्धि-क्षेत्र-स्वामि-विषयेभ्योऽवधि-मनःपर्यययोः।।२५ामति श्रुतयोर्निवन्धोद्रव्येष्वसर्व-पर्याये ॥२६॥ रूपिष्वधेः॥२७॥तदनन्त-भागे मनःपर्ययस्य ॥२८॥ सर्व-द्रव्यपर्यायेषु केवलस्य ॥२६॥ एकादीनि भाज्यानि युगपदेकस्मिनाचतुर्व्यः ॥ ३० ॥ मति-श्रुतावधयो विपर्ययश्च ॥ ३१ ॥ सदसतोरविशेषाद्यदृच्छोपलब्धेन्मत्तवत् ॥ ३२ ॥ नैगमसंग्रह-व्यवहारर्जु-सूत्र-शब्द-समभिरूढैवम्भूता नयाः॥३३॥
इति तत्त्वार्थाधिगमे मोक्षशास्ने प्रथमोऽध्याय ॥१॥
औपशमिक-धायिकी भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक-पारिणामिकौ च ॥१॥ द्वि-नवाष्टादशैकविंशतित्रि-भेदा यथाक्रमम् ॥ २ ॥ सम्यक्त्व चारित्रे ॥ ३ ॥ ज्ञानदर्शन-दान-लाभ-भोगोपभोग-वीर्याणि च ॥४॥ ज्ञानाज्ञानदर्शन-लब्धयश्चतुस्त्रित्रि-पञ्च-मेदाः सम्यक्त्व-चारित्रसंयमासंयमाच ।। ५ ॥ गति-कषाय-लिङ्ग-मिथ्यादर्शनाज्ञानासंयतासिद्ध-लेश्याश्चतुश्चतुस्व्येकैकैकैक-षड्भेदाः ॥ ६ ॥ जीवभव्यामव्यत्वानि च ॥ ७॥ उपयोगो लक्षणम् ॥ ८॥स